आदरानादरयोः सदसती

1-4-63 आदरानादरयोः सदसती आ कडारात् एका सञ्ज्ञा निपाताः गतिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

आदरार्थे प्रयुक्तः "सत्" शब्दः, तथा च अनादरार्थे प्रयुक्तः "असत्" शब्दः क्रियायोगे गतिसंज्ञकौ भवतः । यथा - सत्कृत्य, असत्कृत्य ।

Kashika

Up

प्रीतिसंभ्रम आदरः। परिभवौदासीन्यमनादरः। आदरानादरयोर्यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृ॑तम्। यत् स॑त्क॒रोति॑। असत्कृत्य। अस॑त्कृतम्। यद॑सत्क॒रोति॑। आदरानादरयोरिति किम्? सत् कृत्वा काण्डं गतः। असत् कृत्वा काण्डं गतः॥

Siddhanta Kaumudi

Up

सत्कृत्य । असत्कृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं चतुर्थं सूत्रम् । अनेन सूत्रेण आदरार्थे प्रयुक्तस्य सत्-शब्दस्य, तथा च अनादरार्थे प्रयुक्तस्य असत्-शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन एतयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - सत्कृत्य (आदरं कृत्वा इत्यर्थः), सत्कृतम्, सत्कारः । एवमेव - असत्कृत्य, असत्कृतम्, असत्कार्यम्

1. काशिकायाम् आदरः इति शब्दस्य अर्थः प्रीतिसम्भ्रमः इति दत्तः अस्ति । अत्र सम्भ्रम: इत्यस्य शब्दस्य अर्थः confusion इति न, अपितु अर्थः आदर: इत्येव अस्ति । प्रीतिः / आदरः / respect इत्येतेषां निर्देशार्थम् सत्-शब्दः प्रयुज्यते चेत् क्रियायोगे तस्य गतिसंज्ञा भवति - इति अत्र आशयः वर्तते । एवमेव, परिभवः / तिरस्कारः / अनादरः / disrespect - इत्येतेषु अर्थेषु प्रयुक्तस्य असत्-शब्दस्य क्रियायोगे गतिसंज्ञा भवति ।

  1. यद्यपि सूत्रे क्रियायोगे इति सामान्यनिर्देशः वर्तते, तथापि लोके प्रकृतसूत्रस्य प्रयोगः केवलं <<कृ>>/<<भू>>/<<अस्>>-धातूनां योगे एव कृतः दृश्यते ।

Balamanorama

Up

<<आदरानादरयोः सदसती>> - आदरानादरयोः । सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः । सत्कृत्येति । आदरं कृत्वेत्यर्थः । असत्कृत्येति । अनादरं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् ।

Padamanjari

Up

प्रीतिसंभ्रम इति। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरेत्यर्थः। परिभवौदासीन्यमिति। अवज्ञया कर्तव्यं प्रत्यत्थानादिक प्रत्युपेक्षेत्यर्थः। असदनादरग्रहणं किमर्थम्? असत्कृत्येत्यत्रापि यथा स्यात्। मा भूदसच्छब्दस्य गतिसंज्ञा, सत्कृत्येत्यनेन नञ्समासो भविष्यति? नैवं शक्यम्; सति शिष्टत्वात् कृदुतरपदप्रकृतिस्वरं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वं स्याद्। असत्कृतमित्यत्र तु सत्कृतशब्दे'गतिरनन्तरः' इति स्वरे प्रवृते प्रश्चान्नञ्समासेऽपि तस्येव स्वरः। असच्छब्दस्यापि कृतशब्देनापि समासे तस्य निपातत्वादाद्यौदातस्य गतित्वात्प्रकृतिभावेऽपि स एव स्वर इति नास्ति विशेषः। इह च यदासत्करोतीत्यसच्छब्दस्य निघातो न स्याद्, अव्ययसंज्ञापि तस्य न स्यादित्यसच्छब्दस्यैव गतिनिपातसंज्ञे एषितव्ये। न चात्र सच्छब्देन तदन्तविधिर्लभ्यते; विशेष्यस्याभावात्। नन्वत्र सच्छब्दस्यैव संज्ञास्तु, कार्यप्रदेशेषु प्रकृतस्य तेन तदन्तविधिर्भविष्यति, अव्यसंज्ञायां तावदस्त्येव तदन्तविधिः-परमोच्चैरिति, यथा'कुगतिप्रादयः' इत्यत्रापि सुबिति प्रवर्तते, सुपेत्येव निवृतम्, तद्रतिना विशेष्यते'गतिरनन्तरः' इत्यत्र पूर्वपदम्'गतिर्गतौ' इत्यत्रापि पदस्येति प्रकृतम्। भवतु तदन्तविधिना कार्यम्, अनादरावगतिस्तु कुतः? असत्यनादरग्रहणे, न सदसदित्यादरनिषेधान्नैव शक्यम्, आदरप्रसङ्ग एव हि स्यात्, गुरुमसत्कृत्येति चाण्डालमसत्कृत्येत्यत्र न स्यात्। यथाऽब्राह्मण इति क्षत्रियादिरेवोच्यते, न लोष्टादिः, अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते - अविद्यामानादरोऽनादर इति। बहुव्रीहिश्चात्यन्ताभावे, प्रसक्ताभावे, अप्रसक्ताभावे च भवतीति सर्वत्र संज्ञा सिध्यति, तस्मादनादरग्रहणं कर्तव्यम्। असद्ग्रहणं तु शक्यमकर्तुम्। आदरानादरयोः सदित्येवास्तु, तत्र यथा गोष्पदं सेवित्यत्रासेविते गोष्पदशब्दो न संभवतीत्यगोष्पदार्थमसेवितग्रहणम्; एवमनादरेऽपि सच्छब्दो न सम्भवतीत्यसच्छब्दार्थमानदरग्रहणं भविष्यति। सत्कृत्वा, असत्कृत्वेति। शोभनवचनो विद्यमानवचनो वा सच्छब्दः तद्विपरीतवचनोऽसच्छब्दः॥