तस्यादित उदात्तमर्धह्रस्वम्

1-2-32 तस्या आदितः उदात्तम् अर्धह्रस्वम्

Sampurna sutra

Up

तस्य स्वरितस्य आदितमर्धह्रस्वमुदात्तः

Neelesh Sanskrit Brief

Up

स्वरित-स्वरस्य प्रारम्भिकः अर्धभागः उदात्तः ज्ञातव्यः ।

Neelesh English Brief

Up

The first half part of a स्वरित-स्वर is considered उदात्त.

Kashika

Up

उदात्तानुदात्तसमाहारः स्वरित इत्युक्तम्। तत्र न ज्ञायते कस्मिन्नंश उदात्तः कस्मिन्ननुदात्तः, कियान् वोदात्तः, कियान् वानुदात्त इति। तदुभयमनेनाख्यायते। तस्य स्वरितस्यादा — वर्धह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम्। अर्धह्रस्वम् इति चार्धमात्रोपलक्ष्यते। ह्रस्वग्रहणमतन्त्रम्। सर्वेषामेव ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः। शि॒क्य॑म् इत्यत्रार्ध — मात्रादित उदात्ता, अपरार्धमात्रानुदात्ता, एकश्रुतिर्वा। क॒न्या॑ इत्यत्रार्धमात्रादित उदात्ता, अध्यर्धमात्रानुदात्ता। माणवक॑३ माणवक इत्यत्रार्धमात्रादित उदात्ता, अर्धतृतीयमात्रानुदात्ता॥

Siddhanta Kaumudi

Up

ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श॒तच॑क्रं॒ यो॒॑3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याम् 'स्वरित'-इति संज्ञा <<समाहारः स्वरितः>> 1.2.31 इति सूत्रेण पाठिता अस्ति । अनेन सूत्रेण 'स्वरितस्वरस्य उच्चारणे उदात्तस्वरस्य अनुदात्तस्वरस्य च गुणधर्मयोः सम्मिश्रणं भवति' इति निर्दिश्यते । तत्र स्वरितस्वरस्य कियान् अंशः उदात्तः, कियान् च अनुदात्तः इति स्पष्टीकर्तुम् प्रकृतसूत्रम् विरचितम् अस्ति । स्वरित-स्वरस्य आदितः अर्धभागः ('अर्धह्रस्वम्' इति सूत्रस्थशब्दः) उदात्तः ज्ञेयः, शेषः अर्धभागः च अनुदात्तः ज्ञेयः इति अस्य सूत्रस्य अर्थः । स्वरितस्वरस्य उच्चारणसमये स्वरस्य आदितः अर्धभागः उदात्तस्वरसदृशः उच्चार्यते (इत्युक्ते, तत्र वायोः गमनम् उच्चारणस्थानस्य उर्ध्वभागे भवति) , ततश्च अन्तिमः अर्धभागः अनुदात्तस्वरसदृशः उच्चार्यते (इत्युक्ते, तत्र वायोः गमनम् उच्चारणस्थानस्य अधोभागे भवति), इति अस्य आशयः ।

वस्तुतस्तु, अत्र प्रयुक्तस्य 'अर्धभागः (= अर्धह्रस्वम्)' इति शब्दस्य कः अर्थः — इत्यस्मिन् विषये मतान्तरं विद्यते । 'ह्रस्व'शब्देन ह्रस्वस्वरः न गृह्यते इत्यत्र तु मतैक्यमेव । परन्तु अर्धह्रस्वशब्दस्य साक्षात् कः अर्थः तत्र मतैक्यं नास्ति । तदित्थम् — 1) काशिकाकारस्य पक्षः — काशिकाकारस्य मतेन, अस्मिन् सूत्रे विद्यमानस्य 'अर्धह्रस्वम्' इति शब्दस्य अर्थः 'अर्धमात्रा' (half मात्रा) इति अस्ति । इत्युक्ते, स्वरस्य उच्चारणार्थम् यावत्यः मात्राः आवशक्यः, तासु केवलम् आदिस्थे अर्धमात्राकाले एव (i.e., for only the initial 0.5 मात्रा) उदात्तस्वरसदृशः गुणधर्मः (वायोः गमनम्) भवति, अवशिष्टेषु मात्राकालेषु तु अनुदात्तस्वरसदृशः गुणधर्मः विद्यते, इति काशिकाकारस्य आशयः । अतः — काशिकाकारस्य पक्षे — 1. ह्रस्वः स्वरितः स्वरः = एकमात्रिक: = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः । 2. दीर्घः स्वरितः स्वरः = द्विमात्रिक: = 0.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः । 3. प्लुतः स्वरितः स्वरः = त्रिमात्रिकः = 0.5 मात्रा उदात्तः + 2.5 मात्रा अनुदात्तः । इति । 2) कौमुदीकारस्य पक्षः — कौमुदीकारस्य मतेन तु अस्मिन् सूत्रे विद्यमानस्य 'अर्धह्रस्वम्' इति शब्दस्य अर्थः 'अर्धकालं यावत्' (half period) इति अस्ति । इत्युक्ते, स्वरस्य उच्चारणार्थम् यावान् कालः आवश्यकः, तस्मात् अर्धं कालः यावत् (i.e. half of the total time) उदात्तस्वरसदृशः गुणधर्मः (वायोः गमनम्) भवति, अवशिष्ट: अर्धं कालः यावत् अनुदात्तस्वरसदृशः गुणधर्मः विद्यते, इति कौमुदीकारस्य आशयः । अतः — कौमुदीकारस्य पक्षे — 1. ह्रस्वः स्वरितः स्वरः = एकमात्रिकः = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः । 2. दीर्घः स्वरितः स्वरः = द्विमात्रिकः = 1 मात्रा उदात्तः + 1 मात्रा अनुदात्तः । 3. प्लुतः स्वरितः स्वरः = त्रिमात्रिकः = 1.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः । इति ।

Balamanorama

Up

<<तस्यादित उदात्तमर्धह्रस्वम्>> - फलितमाह — उदात्तत्वानुदात्तत्वे इत्यादिना । ननु उदात्तत्वानुदात्तत्वयोरेकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः , कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः । तस्य = स्वरितस्य आदितः = पूर्वभागे अर्धह्रस्वमुदात्तमित्यर्थः प्रतीयते । एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात् । अत आह - ह्रस्वग्रहणतन्त्रमिति । तन्त्रं = प्रधानम् ।तन्त्रं प्रधाने सिद्धान्ते॑ इति कोशः । न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं । अविवक्षितार्थकमित्यर्थः । ह्रस्वग्रहणं न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः । ततश्च फलितमाह — स्वरितस्यादितोऽर्धमुदात्तं बोध्यमिति । ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह — उत्तरार्धं त्विति । ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह — तस्य चेति । चकारो वाक्यालङ्कारे । तस्य अनुदात्तभागस्य उदात्तस्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः । तस्य भावः उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः । अन्यत्रेति । उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे, अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः । तत्र त्वेवमुक्तम् — अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् ।उदात्तं वोच्यते किंचित्स्वरितं वाऽक्षरं परम्॥॑ — इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः । सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति । किं सर्वत्र एवं, नेत्याह — न चेदित्यादिना । उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना । तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाहृत्य दर्शयति — केत्यादिना इत्यादिष्वनुदात्त इत्यन्तेना तत्र 'क्व' इति ह्रस्वस्वरितः । स तावत् 'वो' इत्योकारात्मकोदात्तपरकः । 'येऽरा' इत्येकारो दीर्घस्वरितः । स च 'रा' इत्याकारात्मकोदात्तपरः । 'शतचक्रं यो' इत्योकारः कम्पस्वरितः । स तु 'ह्र' इत्यकारात्मकस्वरितपरकः । इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः । अन्यत्र तूदात्तश्रुतिरित्येतदुदाहृत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् । ईळ इति अनुदात्तम् । तत्रउदात्तादनुदात्तस्य स्वरितः॑ इति संहितायामीकारः स्वरितः ।स्वरितात्संहितायामनुदात्तानाम् इत्येकारः प्रचयः । ततश्च ईकारः स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थः । तदेवमुदात्तह्रस्वः अनुदात्तह्रस्वः स्वरितह्रस्व इति ह्रस्वस्त्रिविधः । एवं दीर्घोऽपि त्रिविधः । तथा प्लुतोऽपि । ततश्च एकैकोऽच् नवविध इति स्थितम् । स नवविधोऽपीति । उक्तरीत्या नवविधोऽपि सः = अच्, अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा = द्वाभ्यां प्रकाराभ्यां वर्तते इत्यर्थः ।

Padamanjari

Up

आदौ उ आदितः, सप्तम्यन्तातसिः । अर्द्धह्रस्वमिति । ऽअर्द्धं नपुंसकम्ऽ इति समासः । ह्रस्वशब्द उभयलिङ्गः-ऽह्रस्वो नपुंसकेऽ, ऽह्रस्वंलघुऽ इति । तदिह परवल्लिङ्गत्वेन नपुंसकत्वम् । उक्तपरिमाणस्याचो ह्रस्वसंज्ञा कृतेति यत्रैव तस्यार्धमिति दीर्घप्लुतयोरेतद्विभागवचनं न स्यादित्याशङ्क्याह - अर्द्धह्रस्वमिति । चेत्यादि । ह्रस्वस्य हि मात्रा भवति अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते । इह प्रकृतत्वादेव स्वरितस्य विभागाख्यानसिद्धे तस्येति वचनं स्वरितमात्रपरिग्रहार्थम् । यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणं तत्र स्वरितमात्रपरिग्रहोऽर्थवान् भवति । ह्रस्वग्रहणमतन्त्रमिति । अप्रधानमुपलक्षणत्वाद्, यथा - काकेभ्यो दधिरक्ष्यतामित्यत्र काकाः । नन्वेवमप्याष्टमिकस्वरितस्य विभागो न सिद्ध्यति,तस्यासिद्धत्वात्, नैष दोषः; इत आरभ्य नव सूत्राणि असिद्धकाण्डे ऽउदातादनुदातस्यऽ इत्यस्मात्पराणि पठितव्यानि, किं प्रयोजनम् ? इदं तावद्विभागाख्यानमाष्टमिकस्यापि भवति । उतरत्रापि प्रयोजनं तत्र तत्र वक्ष्यामः । एकश्रुतिर्वेति । उदातभागस्य पटुअत्वात्पटुअत्वकृतौ विकल्पः । पटुअत्वे हि तदुपरगातद्रूपतामिवापन्नो नानुदातव्यपदेशमर्हति, नाप्युदातव्यपदेशम्; उपरागमात्रत्वात् । तेन भेदतिरोधानलक्षणमैकश्रुत्यं परो भागः प्रतिपद्यते । अन्वर्थं वा एकश्रुतित्वम्, पूर्वभागश्रुतेरेकाऽभिन्नाकारा श्रुतिरस्येति कृत्वा । अध्यर्थमात्रानुदातेति । एकश्रुतिर्वेति नोक्तम्; पूर्वानुसारेण गम्यमानत्वात्, लघुना वा महतोऽनुपरगात् । माणवका3 माणवकेति । ऽस्वरितमाम्रेडितेऽसूयाऽ इति प्लुतः स्वरितः ॥