अयनं च

8-4-25 अयनं च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे अन्तः अदेशे

Sampurna sutra

Up

अन्तर् रषाभ्यामयनं नः णः अदेशे

Neelesh Sanskrit Brief

Up

'अन्तर्' शब्दात् परः विद्यमानस्य 'अयन' शब्दस्य नकारस्य णकारादेशः विधीयते । परन्तु निर्मितेन शब्देन देशस्य नाम्नः निर्देशः कर्तव्यः अस्ति चेत् एतादृशम् णत्वं न भवति ।

Neelesh English Brief

Up

The नकार of अयन is converted to णकार when this word follows the word 'अन्तर्'. But this णत्व does not happen if the resultant word indicates the name of a place.

Kashika

Up

अन्तरदेश इति वर्तते। अयननकारस्य चान्तःशब्दादुत्तरस्य णकारादेशो भवत्यदेशाभिधाने। अन्तरयणं वर्तते। अन्तरयणं शोभनम्। अदेश इत्येव — अन्तरयनो देशः॥

Siddhanta Kaumudi

Up

अयनस्य णोऽन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अन्तर्' इति शब्दः <<अन्तरपरिग्रहे>> 1.4.65 इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अस्य शब्दस्य उत्तरपदरूपेण 'अयन' इति शब्दः विद्यते चेत् वर्तमानसूत्रेण तस्य नकारस्य णकारादेशः भवति । परन्तु यदि निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति, तर्हि एतादृशः णकारादेशः न विधीयते । यथा - 1. अन्तः अयनम् = अन्तरयणम् । The act of going inside. अत्र <<कुगतिप्रादयः>> 2.2.18 इति तत्पुरुषसमासः भवति । 2. अन्तः ईयते अस्मिन् देशे = अन्तरयनः देशः । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न विधीयते । अत्र इण् धातोः <<करणाधिकरणयोश्च>> 3.3.117 इत्यनेन ल्युट्-प्रत्ययं कृत्वा अग्रे बहुव्रीहिसमासं कृत्वा 'अन्तरयन' शब्दः सिद्ध्यति । स्मर्तव्यम् - 1. 'अयन' इति शब्दः 'इण् गतौ' (अथवा 'अय्' गतौ) धातोः ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति । 2. वस्तुतः <<अन्तरपरिग्रहे>> 1.4.65 इत्यत्र वार्त्तिककारः <!अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या!> इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ 'अन्तर् + अयन' इत्यत्र वस्तुतः <<कृत्यचः>> 8.4.29 इत्यनेनैव णत्वं भवितुमर्हति । परन्तु तादृशं क्रियते चेत् देशस्य सन्दर्भे अपि णत्वं प्रसज्येत - यत् न इष्यते । अतएव वर्तमानसूत्रमाचार्येण पृथक् रूपेण निर्मितमस्ति । अतः 'अन्तरयनो देशः' इत्यत्र णत्वं न भवति ।

Balamanorama

Up

Padamanjari

Up

अन्तरयणमिति । अयेः, इणो वा ल्युटि रूपम् ।'कृत्यचः' इति सिद्धे इदमपि देशप्रतिषेधार्थं वचनम् ॥