8-4-26 छन्दसि ऋदवग्रहात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे
पूर्वपदादिति वर्तते। ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति । छन्दसि विषये। नृ॒मणाः॑ (ऋ० १.१६७.५)। पि॑तृ॒याण॑म् (ऋ० १०.२.७)। अत्र हि नृऽमनाः॑, पिृ॒तृृ॒ऽयान॑म् इति ऋकारोऽवगृह्यते। अवग्रहग्रहणं किमर्थमुच्यते, यावता संहिताधिकार आध्यायपरिसमाप्तेः ८.२.१०८ इत्युक्तम्? विषयोपलक्षणार्थमवग्रहग्रहणम् — अवगृह्यमाणाद् यथा स्यात्, अनवगृह्यमाणाद् मा भूत्। अपदान्ते चावग्रहो नास्ति॥
ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥
अवगृह्यतेउविच्छिद्य पठ।ल्ते इत्यवग्रहः, ऋच्चासाववग्रहश्च ऋदवग्रहः । ऋकाराद्, अवग्रहात्, पूर्वपदात् - इति तिस्रोऽपि समानाधिकरणाः पञ्चम्यः । तत्र ऋकारमात्रस्य पूर्वपदस्यासम्भवादृकारेण तदन्तविधिः - अवग्रहणभूतो य ऋकारस्तदन्तादिति । संहिताधिकाराच्च संहिताकाल एतेषां णत्वम्; पदकाले चावग्रहः क्रियते, तेनावग्रहयोगयत्वादृकारोऽवग्रह इत्युक्तः, न तु तद्दशापन्नः । तथा चावग्रहं दर्शयता णत्वं न प्रयुक्तम् । अनवगृह्यमाणादिति । अनवग्रहयोग्यादित्यर्थः । अपदादिति । पदे ह्यवग्रहः क्रियते, पदमत्र विच्छिद्यत इति दर्शनाय ॥