8-3-44 इसुसोः सामर्थ्ये पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः अन्यतरस्याम्
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
इसुसोः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् षः सामर्थ्ये
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये विकल्पेन षकारादेशः भवति ।
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
The विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is optionally converted to a षकार whenever the words involved in the सन्धि are associated with each other.
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
षः इति सम्बध्यते। इसुसित्येतयोः विसर्जनीयस्य अन्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः। सर्पिष्करोति, सर्पिः करोति यजुस्करोति, यजुः करोति। सामर्थ्ये इति किम्? तिष्ठतु सर्पिः, पिव त्वमुदकम्। सामर्थ्यम् इह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा।
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
अस्य सूत्रस्य अर्थं ज्ञातुम् 'सामर्थ्यम्' तथा इस्/उस्-प्रत्ययानां विषये किञ्चित् अधिकम् पश्यामः ।
1) सामर्थ्यम् - 'एकस्य पदस्य अन्येन पदेन सह अन्वयस्य शक्तिः' सामर्थ्यम् नाम्ना ज्ञायते । यथा - 'गच्छति राज्ञः पुत्र', अस्मिन् वाक्ये 'राज्ञः' पदस्य सम्बन्धः 'पुत्रः' अनेन सह अस्ति, अतः 'राज्ञः' तथा 'पुत्रः' एतयोर्शब्दयोर्मध्ये 'सामर्थ्यम्' अस्तीति उच्यते । परन्तु - 'भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति' अस्मिन् वाक्ये 'राज्ञः' शब्दस्य अन्वयः 'दर्शनम्' अनेन सह अस्ति, 'पुत्र' अनेन सह न । अतः अत्र 'राज्ञः' तथा 'पुत्रः' एतयोः शब्दयोर्मध्ये सामर्थ्यम् नास्तीति उच्यते । सामान्यरूपेण सन्धिं कर्तुम् केवलं संहिता आवश्यकी अस्ति , सामर्थ्यम् न । यथा, 'भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति' अस्मिन् वाक्ये यद्यपि 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये सामर्थ्यम् नास्ति, तथापि विसर्गस्य कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन उपध्मानीयं कृत्वा 'भवति दर्शनं राज्ञः≍पुत्रः चोरस्य धावति' इति अपि वाक्यनिर्माणं भवति । परन्तु अस्मिन् सूत्रे उक्तः विधिः संहिता तथा सामर्थम् - उभावपि स्तः चेदेव भवति । एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'सामर्थ्ये' इति लिखितमस्ति ।
2) इस्/उस्-प्रत्ययः - एतौ द्वौ उणादि-प्रत्ययौ स्तः । भिन्नैः उणादिसूत्रैः अनयोः प्रत्यययोः विधानं भवति । अर्चिस्, सर्पिस्, शोचिस्, छदिस्, हविस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति, तथा धनुस्, चक्षुस्, जनुस्, वपुस्, तनुस्, आयुस् - एतादृशाः शब्दाः उस्-प्रत्ययान्तशब्दाः सन्ति ।
इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - यदि इस्/उस् -प्रत्ययस्य विसर्गात् परः कवर्गस्य / पवर्गस्य वर्णः आगच्छति, तर्हि तस्य विसर्गस्य सामर्थ्ये सति विकल्पेन षकारः भवति । यथा -
'त्वम् सर्पिः पिब' अस्मिन् वाक्ये सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे 'सर्पिः' इति जायते । अस्य विसर्गस्य पकारे परे वर्तमानसूत्रेण वैकल्पिकः षकारः विधीयते - 'त्वम् सर्पिष्पिब' । अत्र सर्पि-शब्दस्य पिब-शब्देन सह अन्वयः अस्ति, अतः अत्र सन्धिः भवति । अयम् षत्वम् वैकल्पिकमस्ति, अतः षत्वाभावे कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन विकल्पेन उपध्मानीयं कृत्वा 'त्वम् सर्पि≍पिब' / त्वम् सर्पिःपिब' एते द्वे वाक्ये अपि सिद्ध्यतः ।
'तिष्ठतु सर्पिः, पिब त्वमुदकम्' - अस्मिन् वाक्येऽपि सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे 'सर्पिः' इति जायते । अत्रापि विसर्गात् परः पकारः अस्ति । परन्तु अत्र 'सर्पिः' सब्दस्य सामर्थ्यम् 'तिष्ठतु' इत्यनेन सह अस्ति, पिब-इत्यनेन सह न । अतः अत्र वर्तमानसूत्रेण षत्वं न भवति । अतः कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन विकल्पेन उपध्मानीयं कृत्वा 'तिष्ठतु सर्पि≍पिब त्वमुदकम्' / 'तिष्ठतु सर्पिः पिब त्वमुदकम्' एते द्वे वाक्ये एव सिद्ध्यतः ।
सः यजुः करोति → सः यजुष्करोति, सः यजुः≍करोति, सः यजुःकरोति । अत्रापि 'यजुः'-शब्दस्य 'करोति'-शब्देन सह अन्वयः अस्ति, अतः अत्र वर्तमानसूत्रेण विकल्पेन विसर्गस्य षकारादेशः भवति । विकल्पाभावे कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन वैकल्पिकमुपध्मानीयं अपि भवति ।
रामः करोति यजुः, कृष्णः गच्छति → रामः करोति यजु≍कृष्णः गच्छति , रामः करोति यजुःकृष्णः गच्छति । अत्र यजुः-शब्दस्य कृष्ण-शब्देन सह अन्वयः नास्ति, अतः अत्र यजुः-शब्दस्य विसर्गस्य षकारादेशः न भवति । कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन विकल्पेन उपध्मानीयं कृत्वा वाक्यद्वयं तु सिद्ध्यतः एव ।
ज्ञातव्यम् - वस्तुतः सामर्थ्यस्य प्रकारद्वयमस्ति - 'व्यपेक्षा', तथा 'एकार्थीभाव' । एकार्थीभावसामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोः मेलनेन तृतीयस्य भिन्न-अर्थवाचिनः शब्दस्य निर्माण भवति । व्यपेक्षासामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोर्मध्ये वाक्ये कश्चन सम्बन्धः अस्ति । उदाहरणानि एतानि -
1) राज्ञः पुत्रः गच्छति - अस्मिन् वाक्ये 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये व्यपेक्षा-सामर्थ्यमपि अस्ति, एकार्थीभाव-सामर्थ्यमपि अस्ति । अतः अत्र 'राजपुत्रः गच्छति' इत्यपि वक्तुं शक्यते ।
2) उद्यानमुपगृहमस्ति - अस्मिन् वाक्ये 'उप' तथा 'गृहम्' एतयोर्मध्ये एकार्थीभाव-सामर्थ्यमस्ति, परन्तु व्यपेक्षा-सामर्थ्यम् नास्ति, यतः उप-शब्दस्य गृह-शब्देन सह कोऽपि सम्बन्धः नास्ति । केवलं समासं कर्तुमुप-शब्दस्य योजनम् कृतमस्ति ।
3) सः मम गृहम् गच्छति - अत्र 'गृहम्' तथा 'गच्छति' एतयोर्मध्ये व्यपेक्षासामर्थ्यमस्ति, परन्तु एकार्थीभाव-सामर्थ्यम् नास्ति, यतः अत्र एतयोः द्वयोः शब्दयोः मेलनेन तृतीयस्य शब्दस्य निर्माणम् भवितुम् न अर्हति ।
अस्मिन् सूत्रे प्रयुक्तः 'सामर्थ्ये' अयं शब्दः व्यपेक्षा-सामर्थ्यार्थमस्ति ।
4) भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति - अत्र 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये कीदृशमपि सामर्थ्यम् नास्ति ।
अस्मिन् सूत्रे प्रयुक्तः 'सामर्थ्य' अयम् शब्दः व्यपेक्षासामर्थ्यस्य निर्देशं करोति । इत्युक्ते, वर्तमानसूत्रस्य प्रयोगार्थम् व्यपेक्षासामर्थ्यमावश्यकमस्ति । काशिकाकारः अस्मिन् विषये वदति - ' सामर्थ्यम् इह व्यपेक्षा, न पुनः एकार्थीभावः, उभयं वा' ।
index: 8.3.44 sutra: इसुसोः सामर्थ्ये
तिष्ठत्वित्यादि । अत्रसपरिरित्यस्य तिष्ठत्वित्यनेन सम्बन्धः,'पिब' इत्यस्य तूदकमित्यनेनेति परस्परलसम्बन्धाभावादसामर्थ्यम् । सामर्थ्यमिह व्यपेक्षेति । अवधारणमत्र द्रष्टव्यम् -व्यपेक्षैवेति । प्रयोजनमुतरत्र वक्ष्यते । न पुनरेकार्थीभाव इति । अत्राप्यवधारणं द्रष्टव्यम् - एकार्थीभाव एव गृह्यत इति यतन्न व्यपेक्षैवेत्यर्थः । ननु च सामर्थ्यशब्दः सामान्यशब्दः, न च सामान्यशब्दः प्रकरणादिकमन्तरेण विशेषेऽवतिष्ठते, तत्कथं व्यपेक्षैव सामर्थ्यं गृह्यते, न पुनरेकार्थीभाव इत्युच्यते, उभयं तु कस्मान्न गृह्यते ? अत आह - उभयं वेति । नेत्येव; उभयमपि गृह्यत इति यतदपि नैवेत्यर्थः । अयं भावः - पदविधित्वादेव समर्थपरिभाषोपस्थानात् सामर्थ्ये लब्धे पुनः सामर्थ्यग्रहणादिष्टस्य व्यपेक्षालक्षणस्यैव सामर्थ्यस्य परिग्रहः; नेतरस्य, नाप्युभयोरिति ॥