प्रत्यभिवादेऽशूद्रे

8-2-83 प्रत्यभिवादे अशूद्रे पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Sampurna sutra

Up

अशूद्रविषये प्रत्यभिवादे वाक्यस्य टेः प्लुतः उदात्तः ।

Neelesh Sanskrit Brief

Up

शूद्रं विहाय अन्यान् प्रति अभिवादनस्य प्रत्युत्तरम् येन वाक्येन दीयते, तस्य टिसंज्ञकः प्लुतः उदात्तः च भवति ।

Neelesh English Brief

Up

The टिसंज्ञक of the sentence which is used to answer a greeting, becomes प्लुत and उदात्त, provided that the sentence is not addressed to a शूद्र.

Kashika

Up

प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते , तत्राशूद्रविषये यद् वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति। अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि दे॒व॒द॒त्त३। अशूद्र इति किम्? अभिवादये तुषजकोऽहं भोः, आयुष्मानेधि तुषजक॥ स्त्रियामपि प्रतिषेधो वक्तव्यः॥ अभिवादये गार्ग्यहं भोः, आयुष्मती भव गार्गि। असूयकेऽपि केचित् प्रतिषेधमिच्छन्ति। अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन्। यावच्च तस्यासूयकत्वं न ज्ञायते, तावदेव प्रत्यभिवादवाक्यम्। तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवाद एव नास्ति, कुतः प्लुतः? तथा ह्युक्तम् — <<असूयकस्त्वं जाल्म,न त्वं प्रत्यभिवादम् अर्हसि, भिद्यस्व वृषल स्थालिन्>> (महाभाष्य ३.४१६) इति। अभिवादवाक्ये यत् संकीर्तितं नाम गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिरिष्यते। इह न भवति — देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधीति॥ भोराजन्यविशां वेति वक्तव्यम्॥ भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भो३ः, आयुष्मानेधि देवदत्त भोः। राजन्य — अभिवादय इन्द्रवर्माहं भोः, आयुष्मानेधी॒न्द्॒रव॒र्म३न्, आयुष्मानेधीन्द्रवर्मन्। विश् — अभिवादय इन्द्रपालितोऽहं भोः, आयुष्मानेधी॒न्द्॒रपा॒लि॒त३। आयुष्मानेधीन्द्रपालित॥

Siddhanta Kaumudi

Up

अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त3 ।<!स्त्रियां न !> (वार्तिकम्) ॥ अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ।<!भोराजन्यविशां वेति वाच्यम् !> (वार्तिकम्) ॥ आयुष्मानेधि भोः3 । आयुष्मानेधीन्द्रवर्म3न् । आयुष्मानेधीन्द्रपालित3 ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

शिष्येण कृतस्य अभिवादनस्य प्रत्युत्तरार्थम् आचार्यः यद् वाक्यम् उच्चार्य आशीः प्रददाति, तस्य वाक्यस्य टिसंज्ञकः अनेन सूत्रेण प्लुतः उदात्तः च भवति । प्रत्यभिवादः = प्रति + अभिवादः = प्रति + प्रणामः । अभिवादनस्य उत्तरार्थम् उच्चारिता आशीः प्रत्यभिवादः नाम्ना ज्ञायते । यथा — 1. देवदत्तः (इति कश्चन ब्राह्मणः) आचार्यम् ब्रूते — 'अभिवादये आचार्य; देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव देवदत्त3 । अस्मिन् वाक्ये आचार्येण उक्तस्य प्रत्यभिवादस्य टिसंज्ञकस्य प्रथमः स्वरः (इत्युक्ते, 'देवदत्त' इति शब्दस्य अन्तिमः अकारः) प्रकृतसूत्रेण प्लुतः उदात्तः च भवति । 2. विष्णुशर्मा (इति कश्चन ब्राह्मणः) आचार्यम् ब्रूते — 'अभिवादये आचार्य; विष्णुशर्माऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव विष्णुशर्म3न् । अस्मिन् वाक्ये आचार्येण उक्तस्य प्रत्यभिवादस्य टिसंज्ञकस्य प्रथमः स्वरः (इत्युक्ते, 'विष्णुशर्मन्' इति शब्दस्य अन्तिमः मकारोत्तरः अकारः) प्रकृतसूत्रेण प्लुतः उदात्तः च भवति । परन्तु यदि एतादृशं वाक्यं शूद्रं प्रति उच्चार्यते, तर्हि टिसंज्ञकः प्लुतः उदात्तः च नैव भवति । यथा — तुषजकः (इति नामा कश्चन शूद्रः) ब्रूते — 'अभिवादये आचार्य, तुषजकोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव तुषजक । अत्र ककारोत्तरः अकारः प्लुतः उदात्तः च न भवति । विशेषः — अस्य सूत्रस्य सन्दर्भे कौमुदीकारः वदति — नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते, तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि । इत्युक्ते, वाक्यस्य अन्तिमः शब्दः गोत्रम् मनुष्यस्य नाम वा निर्दिशति, चेदेव अस्य सूत्रस्य प्रयोगः भवति, न हि अन्येषु स्थलेषु । यथा — 1. देवदत्तः (इति कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव देवदत्त3। अत्र देवदत्तशब्देन नाम्नः निर्देशः क्रियते, अतः अत्र तकारोत्तरः अकारः प्लुतः उदात्तः च भवति । 2. वत्सगोत्रोत्पनः (कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, वात्स्योऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव वात्स्य3 । अत्र वात्स्य-शब्देन गोत्रस्य निर्देशः क्रियते, अतः अत्र यकारोत्तरः अकारः प्लुतः उदात्तः च भवति । 3. देवदत्तः (इति कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव । अत्र वकारोत्तरः अकारः प्लुतः उदात्तः च न भवति, यतः अत्र वाक्यस्य अन्ते नाम्नः गोत्रस्य वा निर्देशः नास्ति । वार्त्तिकानि <!1. स्त्रियां न !> स्त्रिया अभिवादनं क्रियते चेत् तस्य प्रत्यभिवादनस्य वाक्यस्य टिसंज्ञकः प्लुतः उदात्तः च न भवति । यथा — गार्गी ब्रूते — 'अभिवादये, गार्ग्यहम्' । तदा आचार्यः प्रत्यभिवदति — आयुष्मती भव गार्गि । अत्र गार्गि-शब्दस्य अन्तिमः इकारः टिसंज्ञकः न भवति । 2. <!भोराजन्यविशां वेति वाच्यम् !> (भो-राजन्य-विशां वा इति वाच्यम्) यदि प्रत्यभिवादस्य वाक्यस्य अन्ते भोः इति शब्दः विद्यते उत कस्यचन क्षत्रियस्य नाम विद्यते, उत कस्यचन वैश्यस्य नाम विद्यते, तर्हि प्रकृतसूत्रेण उक्तः आदेशः विकल्पेन भवति । यथा — 1. आयुष्मान् एधि भोः3 ! अथ वा, आयुष्मानेधि भोः । अत्र भकारोत्तस्य ओकारस्य वैकल्पिकम् प्लुतत्वम् विधीयते । 2. आयुष्मानेधीन्द्रवर्म3न् ! अथ वा, आयुष्मानेधीन्द्रवर्मन् । 'इन्द्रवर्मन्' इति क्षत्रियस्य कृते प्रयुक्तम् सम्बोधनम् अस्ति ; अयं च वाक्यस्य अन्ते विद्यते, अतः अस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति । 3. आयुष्मानेधीन्द्रपालित3 ! अथ वा, आयुष्मानेधीन्द्रपालित । 'इन्द्रपालित' इति वैश्यस्य कृते प्रयुक्तम् सम्बोधनम् अस्ति ; अयं च वाक्यस्य अन्ते विद्यते, अतः अस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति । अनेन वार्त्तिकेन उक्ता विभाषा उभयविभाषा अस्ति । भोः इति शब्दः गोत्रवाची, नामपदम् वा नास्ति, अतः तस्य विषये पूर्वेण अप्राप्ते अत्र विकल्पः विधीयते । क्षत्रियाणाम् वैश्यानाम् च नाम्नां विषये पूर्वेण नित्यं प्लुतत्वे / उदात्तत्वे प्राप्ते प्रकृतसूत्रेण विकल्पः उच्यते । अतः इदम् उभयविभाषायाः उदाहरणम् ।

Balamanorama

Up

<<प्रत्यभिवादेअशूद्रे>> - प्रत्यभिवादेऽशूद्रे ।वाक्यस्य टेःप्लुत उदात्त॑ इत्यधिकृतम् । अशूद्र इति च्छेदः । न शूद्रः अशूद्रः=द्विजातिः । तद्विषयः प्रत्यभिवादः=विधिवदभिवादयमानं प्रति विधिवदाशीर्वचनम् । भावे घञ् । अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात्स चोदात्त इत्यर्थः । अभिवादविधिमाह — आपस्तम्बः-॒दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राआहृणोऽभिवादयीत, उरःसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शूद्रः । 'प्राञ्जलि' इति ।तिष्ठन्ताप्रातरभिवादमभिवादयीतासावहं भोः॑ इति च । 'असा' विति स्वनामनिर्देशोऽभिमतः । 'देवदत्तोऽहं भो' इति ब्राउवन् अभिवादम्ाशीर्वचनम् । अभिवदायीत=वक्तव्यत्वेन विज्ञापयेत् । ततश्च यथा वर्णं दक्षिणं वाहुं प्रसार्यअभिवादये देवदत्तोऽहं भोः॑ इति ब्राऊयादित्यर्थः । अयमभिवादनप्रकारः । प्रत्यभिवादनप्रकारस्तु मनुना दर्शितः-आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । अकांरश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥॑ इति । अत्र नाम्नो ।ञन्ते इति वचनादायुष्मान् भव सौम्येत्यनन्तरमबिवादयमानस्य नाम संबुद्ध्यन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति । अस्य नाम्नोऽन्ते अक#आरश्चा वाच्यः=प्रयोज्यः । तस्मादकारात्पूर्वाक्षरः=पूर्वोऽच् प्लुतः प्रयोक्तव्य इत्यर्थः । एवंचआयुष्मान् भव सौम्य देवदत्त३ अ॑ इति प्रत्यभिवादवाक्यं संपन्नमिति स्थितिः ।अभिवादये देवदत्तोऽहट॑मिति अभिवादवाक्यप्रदर्शनम् । भो इत्यस्याप्युपलक्षणम् । आयुष्मान् भव देवदत्त ३ इति प्रत्यभिवादवाक्यप्रदर्शनम् । 'अभिवादये' इत्यस्य अबिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः । भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तकारादकारस्य प्लुतः । आयुष्मत्त्वस्य विधेयत्वात्संबोधनविभक्त्यभावः । अत्र प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्येत्यादि न भवति, एचोऽप्रगृह्रस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात्, उक्तमन्वादिस्मृतिविरोधाच्च ।अशूद्र इति किम् ॒कुशल्यसि तुषजक॑ इति भाष्यम् । एवंच शूद्रविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते ।अशूद्रस्त्र्यसूयकेष्विति वक्तव्य॑मिति वार्तिकम् । शूद्रविषय एव प्लुतप्रतिषेधो न भवति, किंतु शूद्रवत्स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः ।तत्र शूद्रविषये उदाहृतम् । स्त्रीविषये वार्तिकं विभज्यार्थतः संगृह्णाति — स्त्रियां नेति । स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्न भवतीत्यर्थः ।अभिवादये गाग्र्यह॑मिति अभिवादनवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः । तदाह-नाम गोत्रं वेति । अत्र नामशब्देनद्वादशेऽहनि पिता नाम कुर्या॑दिति विहितं नामैव गृह्रते । अत एवआयुष्मान्भव दण्डि॑न्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् ।नाम गोत्रं वे॑ति परिगणनस्य प्रयोजमाह — नेहेति । आयुष्मानेधीति । अस्तेस्सिप् हिः । ध्वसोरित्येत्वं, हेर्धिः ।श्नसोरल्लोपः॑ । अत्र धकारादिकारस्य न प्लुतः, अनामत्वादगोत्रत्वाच्च । भोराजन्यविशाम् । भोस्शब्दस्य राजन्यवैश्यवाचकनाम्नोश्च टेः प्लुतो वा स्यादिति वक्तव्यमित्यर्थः । भोस्शब्दस्याऽप्राप्ते इतरयोस्तु नामत्वात्प्राप्ते विभाषेयम् । तत्र भोस्शब्दे यथा-आयुष्मनेधि बोः ३ । देवदत्त भोः॑ इति भाष्यम् । अत #एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोगाविकल्पो गम्यते । राजन्ते यथा-आयुष्मानेधि इन्द्रवर्म३न्, इन्द्रवर्मन् । वैश्ये यथा-आयुष्मनेधि इन्द्रपालित३, इन्द्रपालित इति भाष्यम् । अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते । उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः । अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम् ।

Padamanjari

Up

प्रत्यभावादो नामेत्यादि । गुरुरित्युपलक्षणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादमर्हति, अभिवाद्यमानःउआशिषं वाच्यमानो गुरुराशिषं प्रयुङ्क्त इति यत् स प्रत्यभैवादः, न प्रत्युक्तिमात्रम्; तत्रैव लोके प्रसिद्धत्वात् । तद्यथा - ठविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुःऽ इति । तत्रेति । आशीर्वादविषये । कीदृशे ? अशूद्रविषये । अशूद्रो विषयो यस्य स तथोक्तः, अभिवादने सति प्रत्यभिवाद इति । तं तावदुदाहरति - अभिवादय इति । नमस्कारपूर्वमाशिषं वाचयामीत्यर्थः । एवमभिवादितो गुरुः प्रत्यभिवदति - आयुष्मानिति । आयुष्मत्वस्य विधेयत्वात्सम्बोधनविभक्त्यभावः । एधीति । अस्तेर्लोटि सिपो हिः । भवेत्यर्थः । ठायुष्मान्भव सौम्येति विप्रो वाच्योऽभिवादनेऽ इति मानवे भवेत्यर्थग्रहणम्, तेन पर्यायैरपि प्रत्यभावादो भवति । ननु च तत्र ठकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतःऽ इत्युक्तम्, सकस्मादिह न विधीयते ? उच्यते; यदर्थाभिधान उपयुज्यते तदेव व्याकरणे वक्तव्यम्; अकारस्तु केवलमदृष्टार्थः प्रयुज्यते, न त्वस्य कश्चिदर्थोऽस्ति । अन्ये तु मानवमन्यथा व्याचक्षते - अस्याभिवादयितुर्नाम्नोऽन्तेउअवसाने योऽकारः स प्लुतो वाच्यः, अकार इत्युपलक्षणम्, पूर्वाक्षरश्च प्लुतो वाच्यः, हलन्तविषयमेतत्, अक्षर इत्यचमाह, हलन्तेष्वन्त्यात्पूर्वोऽच प्लुतो वाच्य इति, उभाभ्यामिति ताभ्यां टेः प्लुत इत्युक्तं भवति । वयं तु ब्रूमः - पृथगेवाकारः प्रयोक्तव्य इति, कुतः ? अक्षरार्थस्त्वयम् । किञ्च भरतशास्त्रे प्रसङ्गेन प्रत्यभिवादप्रकारे वर्ण्यमाने पृथगकारप्रयोगो दर्शितः । तस्मादयमत्र प्रत्यभिवादनप्रयोगः - आयुष्मान् भव सौम्य देवदत 3 अ, अग्निचि3त् अ इति । एजन्तेषु तु ठेचोऽप्रगृह्यस्यऽ इत्यस्मिन्विधौ सत्यकारे परतः,'तयोर्य्वावचि संहितायाम्' इति यणपि भवति पिनाकपाण3य, हर3य, शम्भ3व, विष्ण3व - इति । प्रत्यभिवादे शर्मवर्मशब्दयोः प्रयोगं नेच्छन्ति ।'शर्मान्तं ब्राह्मणस्य स्याद्वर्मान्तं क्षत्रियस्य तु' - इत्यनेन नाम्न्यनन्तर्भूतयोरेव तयोः प्रयोग उक्तः, न तु नाम्न्यन्तर्भावः । तुषजक इति । कुत्सिते कः,'शूद्रस्य तु जुगुप्सितम्' इति वचनात् एवंविधं शूद्रनाम। स्त्रियामपीति । अस्त्रीशूद्रयोरिति वक्तव्यमित्यर्थः । केचिदाहुः - न स्त्र्यभिवादयते, पादोपसंग्रहणाद्येव तु करोतीति; अन्ये त्वाहु - अभिवादयते, न तु स्वं नाम गोत्रं वा गृह्णातीति; द्वयोरपि पक्षयोः स्त्रीप्रतिषेधो न विधेयः । ये तु स्त्रीणामपि नामगोत्राभ्यामभिवाद - प्रत्यभिवादाविच्छन्ति तन्मतेनायं प्रतिषेधः । असूयतीत्यसूयकःउअविनीतः । तस्मिंस्त्वित्यादिनाऽसूयके प्रतिषेधं प्रत्याचष्टे । यावदसावसूयकत्वेन ज्ञातो न भवति तावत्प्लुतं करोत्येव, यदा त्वसूयकोऽयं मामुपहसितुकाम इति जानाति, तदा नैवाऽऽशीर्वादरूपं प्रत्यभिवादं प्रयुङ्क्ते, प्रत्युत शापमेव ददातीति भाष्ये दर्शितमित्याह - तथा ह्युक्तमिति । गुरुणा स्थालिशब्दं संज्ञां मत्वा प्लुते प्रयुक्ते, असूयक आह - नैषा मम संज्ञेति, किन्तु दण्डिन्यायो मया विवक्षितः - स्थालमस्यास्तीति स्थालीति; तदपि तत्वं मन्वानो गुरुः पुनरपि प्लुतरहितं प्रत्यभिवादनं कृतवान् - आयुष्मानेधि स्थालिन्निति । पुनरसूयक आह - न दण्डिन्यायो मया विवक्षितः संज्ञैवैषा ममेति; ततोऽसूयकत्वं निर्ज्ञाय कुपितः सन् गुरुराह - असूयकस्त्वमित्यादि । भिद्यस्वेति । कर्मकर्तरि यक् । स्थालिन्निति पाठः, न तु स्थालीवदिति । अभिवादवाक्ये यत् सङ्कीर्तितमिति । येन वाक्येनाभिवाद्यते तदभिवादनवाक्यम् । नाम उ संज्ञा । गोत्रमु अपत्यप्रत्ययान्तः शब्दः । वाक्यस्य टेः प्लुतविधानादेवमुक्तम् । तत्र प्लुतिरिष्यत इति । इष्टिरेवेयमिति केचित् । अन्ये त्वाहुः - अभिवादनं तावन्नामगोत्राभ्यामिति । समाचारप्राप्तम् । प्लुतोऽप्ययं प्रधाने कार्यसम्प्रत्ययातस्यैव वाक्यान्ते वर्तमानस्य भवति, पदस्य च प्राधान्यमर्थद्वारकम् । प्रधानमर्थोऽभिवादयिता, तदनुग्रहार्थत्वात्प्रत्यभिवादस्य । कुशलित्वादिकं तु तस्यैव संस्कारकम् । एवम् - एधीत्याख्यातवाच्या साध्यरूपतया प्रधानभूतापि क्रिया संस्कारकत्वेन विवक्षितत्वादप्रधानमेव । तस्मात् प्रधानभूत्सायभिवादयितुर्यदुपस्थापकं पदं तस्य प्लुतः । तच्च नामगोत्रं चेति । भोराजन्यविशां वेति । भो इति स्वरूपग्रहणम्, इतरयोस्तु तन्नाम्ना ग्रहणम् । तत्र भोः शब्दस्यासंज्ञागोत्रशब्दत्वादप्राप्ते विभाषा, इतरत्र प्राप्ते; संज्ञाशब्दत्वात् ॥