8-2-81 एतः ईत् बहुवचने पदस्य पूर्वत्र असिद्धम् अदसः दात् उ दः मः
index: 8.2.81 sutra: एत ईद्बहुवचने
अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचने इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात्।
index: 8.2.81 sutra: एत ईद्बहुवचने
अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् <{SK12}>इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
index: 8.2.81 sutra: एत ईद्बहुवचने
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥
index: 8.2.81 sutra: एत ईद्बहुवचने
एत ईद्बहुवचने - तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत् ।अदसोऽसेर्दादु दो मः॑ इत्यस्मात्अदसो दा॑दिति 'दो मः' इति चानुवर्तते । तदाह-अदस इत्यादिना । बह्वर्थोक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः । पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, 'अदे' इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात् । मुत्वस्याऽसिद्धत्वान्नयणित्याशङ्क्य आह — पूर्वत्रेति । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । यदि तु पूर्वत्रासिद्ध मित्यत्रकार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपिदेवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात् । शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तंपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा । एतच्चपूर्वत्रासिद्ध॑मित्यत्र 'अचः परस्मिन्' इत्यत्र 'षत्वतुकोरसिद्धः' इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः । अमू इति । द्वितीयाद्विवचनं प्रथमाद्विववचनवत् । अमूनिति । शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः । तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह — नाभाव इति ।शेषो घ्यसखी॑ति घिसंज्ञायाम्आङो नाऽस्त्रिया॑मिति नाभाव इत्यर्थः । ननुपूर्वत्रासिद्ध॑मिति विभक्तिकार्यं प्राक्पश्चादुत्वमुत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते । तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम् । यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, 'न मु ने' इत्यारम्भसामर्थ्यादित्यलम् ।
index: 8.2.81 sutra: एत ईद्बहुवचने
अर्थनिर्दशोऽयमिति । व्याप्तेर्न्यायात् । किं पुनः कारणमेवं व्याख्यायते ? इत्यत आह - पारिभाषिके इति । तदा हि'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषोपस्थानाद्वहुवचने परत एकारस्येत्वेन भवितव्यम्, न चात्र बहुवचनं परम् ॥