7-4-92 ऋतः च अभ्यासस्य रीक् रुग्रिकौ च लुकि
index: 7.4.92 sutra: ऋतश्च
ऋकारान्तस्य अङ्गस्य योऽभ्यासः तस्य रुग्रिकौ आगमौ भवतः रीक् च यङ्लुकि। चर्कर्ति, चरिकर्ति, चरीकर्ति। जर्हर्ति। जरिहर्ति। जरीहर्ति। तपरकरणम् किम्? किरतेश्चाकर्ति। किरतिं चर्करीतान्तं पचति इत्यत्र यो नयेत्। प्राप्तिज्ञं तमहं मन्ये प्रारब्धस् तेन सङ्ग्रहः। तत्रेयं प्राप्तिः तपरकरनसामर्थ्यादङ्गविशेषणम् ऋतः इत्येतत्, तया चाप्राप्तिः किरतेरुगादीनाम् इति।
index: 7.4.92 sutra: ऋतश्च
ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः <{SK2348}> इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर् 3 । सिपि दश्च <{SK2468}> इति रुत्वपक्षे रो रि <{SK173}> । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च <{SK2653}> इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः <{SK2179}> । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे <{SK2290}> इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि <{SK1731}> इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति - <{SK2380}> इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर् 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि <{SK2562}> इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर् 3 । अजर्गृद्धाम् 3 । सिपि दश्च <{SK2668}> इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या - <{SK2412}> इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड् - <{SK2561}> इति शः । व्रश्च - <{SK294}> इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः - <{SK2561}> इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः - <{SK2561}> इति यत्रोठ् तद्विषयकम् । ज्वरत्वर - <{SK2564}> इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥
index: 7.4.92 sutra: ऋतश्च
किरतिमिति । ऋकारान्तोपलक्षणमेतत् ।'चर्करीतम्' इति यङ्लुकः पूर्वाचार्यसंज्ञा । पचतीति । लट उपलक्षणम्, तेन चाकर्तीत्यादीनि रूपाणि, किरतेर्यो नयेदित्यर्थः । यद्वा - अत्र यङ्लुकि किरतिं पचतीति यो नयेतुपचतिना तुल्यरूपाणि यो नयेत्, पचतिवद् रुगादिकमकृत्वा नयेदित्यर्थः । प्राप्तिज्ञमिति । रुगादीनां विषयविभागेन या प्राप्तिस्तां जानातीति प्राप्तिज्ञः । प्रारब्ध इति । संग्रहणं संग्रहः, साधुशब्दसंग्रहस्तेन प्रारब्ध इति योग्यतातिशयोद्भावनेनायं स्तूयते । तत्र प्रापतिज्ञमित्यत्र प्राप्तिं व्याचष्टे - तत्रेयं प्राप्तिरिति । तपरकरणसामर्थ्यादिति । अभ्यासविशेषणे तु भूतपूर्वदीर्घनिवृत्यर्थं तपरकरणमिति व्याख्येयम् । न हि मुख्यनिवर्त्यसम्भवे गौणकल्पना न्यान्येति अङ्गविशेषणमृत इत्याश्रित मित्यर्थः ॥