स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा

7-4-81 स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा अभ्यासस्य इत् सनि पुयण्जि अपरे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषामभ्यासस्य ओः अवर्नपरे यणि वा इकारादेशो भवति सनि परतः। सिस्रावयिषति, सुस्रावयिषति। शृणोति शिश्रावयिषति, शुश्रावयिषति। द्रवति दिद्रावयिषति, दुद्रावयिषति। प्रवति पिप्रावयिषति, पुप्रावयिषति। प्लवति पिप्लावयिषति, पुप्लावयिषति। च्यवति चिच्यावयिषति, चुच्यावयिषति। वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते। पूर्वसूत्रेन तु अनन्तर एव यणि भवितव्यम् इति अप्राप्तबिभाषेयम्। अपरे इत्येव, सुस्रूषति। शुश्रूषते।

Siddhanta Kaumudi

Up

एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि - <{SK2572}> इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि - <{SK2314}> इति ह्रस्वः । दीर्घो लघोः <{SK2318}> । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा>> - रुआवतिशृणोति । अपर इत्यनुवर्तते, न तु पुयण्जीति, पवर्गजकारयोरसंभवात्,रुआवत्यादौ यणः सत्त्वेऽप्यव्यभिचारात् । तदाह — अवर्णपरे धात्वक्षरे इति । अक्षरशब्दो वर्णपरः । असिरुआवत् असुरुआवदिति । द्विहल्व्यधानेन लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् अशुश्रवत् ।अदिद्रवत् अदुद्रवत् । अपिप्रवत् अपुप्रवत् । अपिप्लवत् अपुप्लवत् । अचिच्यवत् ।अचुच्यवत् । अथ सासुधतोरशशादित्यत्राह — नाग्लोपीति । अडुढौकदिति । ढौकृ गतावित्यस्य ऋदित्त्वादिति भावः । अचीचकासदिति । चकासृ दीप्तौ । ऋदित्त्वान्नोपधाह्रस्वः ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षे सन्वत्त्वम्, अभ्यासदीर्घश्चेति भावः । मतान्ते त्विति ।अङ्गं यत्र द्विरुच्यते॑ इति मते॑ चङ् परेणौ यल्लघु तत्परो योऽङगस्य अभ्यास॑ इति मते चेत्यर्थः । आग्लोपीतीति । अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहणान्तरं सुब्धातुरनिरूपणे वक्ष्यते इत्यर्थः । ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणेचोरि इति रूपम्,तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सतिचोरिट इत्येव हेतुण्ण्यन्तम् । तसमाल्लटि तिपि शपि गुणे अयादेशेचोरयती॑त्येव रूपम#इष्यते । तन्नोपपद्यते, हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धावायादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह — ण्यन्ताण्णिचीति । ण्यन्ताण्णिचि वृदिंध बाधित्वा णिलोपैत्यन्वयः । कुत इत्यत आह — पूर्वविप्रतिषेधादिति ।ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेने॑ति वार्तिकेनेति भावः । अपवादत्वाद्वेति । 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ ततो हेतुमण्णेर्लोपे चुरित्यस्य द्वित्वे सन्वद्भावविषयत्वाह — दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपदाह्रस्वोऽभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितं, तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाऽभावात् । नापि द्वितीयणिचमादायतदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमसंभवो न शङ्क्य इत्यर्थः । कुत इत्यत आह — ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र णावित्यस्य चङ्परकमित्वजात्याश्रयैकाऽनेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चङ्परकत्वाऽभावेऽपि णित्वस्य चङ्परकत्वमस्तीति ह्रस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिन#इर्देशोऽयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् ।टु ओ इआ गतिवृद्धयोः॑ अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः आआयीत्यस्माल्लडादौ आआययतीति रूपम् । लुङि चङि अइआ इ अ त् इति स्थिते विशेषमाह —

Padamanjari

Up

'श्रु श्रवणे' , अन्ये गत्यर्थाः । उदाहरणेषु ण्यन्तेभ्यः सन् । कथं पुनर्यणि परत उच्यमानमित्वं सकारादीनां वर्णेन व्यवधाने भवति ? तत्राह - वचनसामर्थ्यादिति । पूर्वसूत्रे इत्यादिना अप्राप्तविभाषेयमिति दर्सयति ॥