ओः पुयण्ज्यपरे

7-4-80 ओः पुयण्जि अपरे अभ्यासस्य इत् सनि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सनि इति वर्तते, इतिति च। उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः। पवर्गे अपरे पिपविषते। पिपावयिषति। बिभावयिषति। यण्यपरे यियविषति। यियावयिषति। रिरावयिषति। लिलावयिषति। ज्यपरे जु इति सौत्रोऽयं धातुः। जिजावयिषति। एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्तेऽपि णौ स्थानिवद् भवतीति। ओः इति किम्? पापच्यतेः सन् पापचिषते। पुयण्जि इति किम्? अवतुतावयिषति। जुहावयिषति। अपरे। इति किम्? बुभूषति।

Siddhanta Kaumudi

Up

सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥

Laghu Siddhanta Kaumudi

Up

सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः॥ अबीभवत्॥ {$ {! 1 ष्ठा !} गतिनिवृत्तौ $} (धातुपाठे <{01.1077}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ओः पुयण्ज्यपरे>> - ओः पुयण् । 'उ॑ इत्यस्यओ' रिति षष्ठी ।पुयण्जी॑ति छेदः । पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी । अः परो यस्मादिति बहुव्रीहिः । 'सन्यतः' इत्यस्मात्सनित्यनुवर्तते । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः' इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह — सनि परे इत्यादिना । अबीभवदिति । भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेवभू॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वेऽभ्यासेऽकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूङ्धातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । अरीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामर्थ्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम् ।

Padamanjari

Up

पुयणाजकाराणां समाहारद्वन्द्वे सप्तम्येकवचनम् । पुयण्जि'द्वन्द्वाच्चुदषहान्तात्समाहारे' इति समासान्तस्त्वनित्यत्वान्न भवति, अः परो यस्मात्पुयण्जस्तदपरम्, अवर्णपरमित्यर्थः । पिपविषत इति ।'पृङ् पवने' ,'स्मिपूङ्रञ्ज्वशां सनि' इतीद्गुणावादेशौ, तयोः'द्विर्वचने' चिऽ इति स्थानिवद्भावात्'पू' इति द्विरुच्यते । पिपावयिषतीति । तत एव ण्यन्तात्सन् । विभावयिषतीति । भवतेर्ण्यन्तात्सन् । यियविषतीति ।'यु मिश्रणे' ,'सनीवन्तर्धे' इतीट् । यियावयिषतीति । तस्मादेव ण्यन्तात्सन् । रिरावयिषति, लिलावयिषतीति । रौतिलुनातिभ्यां ण्यन्ताभ्यामेव सन् । जिजावयिषतीति ।'जु' इति सौत्रो धातुः'जुचङ्क्रम्य' इत्यादौ निर्दिष्टः । कथं पुनर्ण्यन्तेषु सन्युवर्णान्ताभ्यासस्य, यावता णौ वृद्ध्यावादेशयोः कृतयोराकारान्तस्य द्विर्वचनेन भवितव्यम्, न हि णौ कृतस्य केनचित्स्थानिवद्भावो विहितः, णेरद्विर्वचननिमितत्वात् ? इत्यत आह - एतदेवेति । न हि णौ कृतस्य स्थानिवद्भावमन्तरेण पुयण्जोऽवर्णपराः सम्भवन्ति । पिपचिषति, यियविषते इति सम्भवनीति चेत् ? किमेतावता ! वर्गग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवति । तस्मादेतदेव वचनमुक्तस्यार्थस्य मृवकमिति । यच्चात्र वक्तव्यं तद्'द्विर्वचने' चिऽ इत्यत्रोक्तम्, तत एवावधार्यम् । पापचिषत इति ।'सनि यो' भ्यासःऽ इत्येतदनाश्रित्येदं प्रत्युदाहरणम् । तदाश्रये तु प्रत्युदाहरणान्तरं मृग्यं यदि सम्भवति । अवतुतावयिषतीति ।'तु' इति सौत्रो धातुः'तुरुस्तुशम्यमः' इत्यत्र निर्दिष्टः । जुहावयिषतीति । जुहोतेर्ण्यन्तात्सन् ॥