अह्नोऽदन्तात्

8-4-7 अह्नः अदन्तात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अदन्तं यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तादिति किम्? निरह्नः। दुरह्नः। <<अह्नोऽह्न एतेभ्यः>> ५.४.८८ इत्यह्नादेशः। अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति॥

Siddhanta Kaumudi

Up

अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् <{SK1381}> ॥ द्विगोर्लुगनपत्य <{SK1080}> इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अह्नोऽदन्तात्>> - अह्नोऽदन्तात् ।पूर्वपदात्संज्ञायाम् इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति । 'रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — अदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम् । समासान्ते परे इति किम् । द्वे अहनी भृतो द्व्यहीनः । अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न । सर्वाह्ण इति । सर्वमहरिति विग्रहेपूर्वकालैके॑ति समासे 'राजाहःसखिभ्यः' इति टच्, अह्नादेशः । णत्वं । 'रात्राह्नाहाः' इति पुंस्त्वम् । पूर्वाह्ण इति । समासादि सर्वाह्णवत् । सङ्ख्याताह्न इति । सङ्ख्यातमहरिति विग्रहः । विशेषणसमासः, टच् अह्नादेशः । निमित्ताऽभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्ख्यापूर्वस्य उदाहरति — द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच् । ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह — स्त्रियामिति । द्व्यह्नेति । द्व्योरह्नोर्भवेत्यर्थः । ठञ् । लुक् च पूर्ववत् ।अपरिमाणविस्ते॑ति न ङीप् । टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम् । टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति ।रात्राह्नाहाः पुंसी॑त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थ इत्युत्तरपदे द्विगुः । टच्, अह्नादेश इति भावः । अव्ययपूर्वस्योदाहरति — अत्यह्न इति । अहरतिक्रान्त इति विग्रहः । 'अत्यादय' इति समासः । टच् अह्नादेश इति भावः ।

Padamanjari

Up

पूर्वाह्ण इति । अह्नः पूर्वो भाग इति'पूर्वापर' इत्यादिसूत्रेण समासः, राजाहः सखिभ्यष्टच्ऽ, ठह्नोऽह्न एतेभ्यःऽ इत्य अह्नादेशः । निरह्न इति । निर्गतोऽह्न इति प्रादिसमासः, शेषं पूर्ववत् । दीर्घाह्नी शरादति । बहुव्रीहिरयम्, तेन टज्न भवति; टज्विधौ तत्पुरुषाधिकारात् । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इति ङीप्, ठल्लोपोऽनःऽ । अकारान्तस्य ग्रहणादत्र णत्वं न भवति । यदि तु नकारस्यायं षष्ठ।ल निर्देशः स्यात्, अत्रापि णत्वं स्यात् । अकारान्तस्य तु ग्रहणं प्रकरणाद्विज्ञायते । सर्वत्र प्रकरणे स्थानी प्रथमया निदिश्यते - वनम्, वाहनम्, यानमिति । यद्वा - युवादिषु पाठादस्य णत्वाभावः । अवश्यकर्तव्यश्च युवादिषु पाठः; प्रातिपदिकान्तेति विकल्पेन णत्वं मा भूदिति । अन्तग्रहणं ज्ञापकम् - अत्र प्रकरणे न यत्नमन्तरेण वर्णेनापि तदन्तविधिर्भवतीति । तेन रषाभ्याम्ऽ इत्यत्र तदन्तविधिने भवति ॥