6-4-6 नृ च नामि उभयथा
नृ-अङ्गस्य नामि दीर्घः उभयथा
षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नृ-शब्दस्य दीर्घादेशः विकल्पेन भवति ।
In presence of the नाम् प्रत्यय, the last letter of the word नृ becomes दीर्घ optionally.
नृ इत्येतस्य नामि पर उभयथा भवति। त्वं नृणां (पै० सं० २.१०.४) नृपते। त्वं नृ॒णां नृ॑पते (ऋ० २.१.१)। केचिदत्र छन्दसीति नानुवर्तयन्ति। तेन भाषायामपि विकल्पो भवति॥
नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥ कॄ तॄ अनयोरनुकरणे [(परिभाषा - ) प्रकृतिवदनुकरणम्] इति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः । किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू <{SK276}>इति ऋतो ङी <{SK275}>ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥ गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ <{SK279}>दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥
अस्य नामि वा दीर्घः। नृणाम्। नॄणाम्॥
<<नामि>> 6.4.3 इत्यनेन षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । अयं दीर्घादेशः नृ-शब्दस्य विषये विकल्पेन भवति । अतः नृ-शब्दस्य षष्ठीबहुवचनस्य द्वे रूपे भवतः - नृणाम्, नॄणाम् । विशेषः - 'उभयथा' अस्य अर्थः अत्र 'वा / विकल्पेन' इति स्वीक्रियते । 'द्वाभ्याम् प्रकाराभ्याम्' इति अर्थग्रहणं क्रियते चेत् 'दीर्घः द्वाभ्यां प्रकाराभ्यां भवति' इति अनिष्टं वाक्यं सिद्ध्येत् ।
केचिदत्रेति । च्छन्दस्युभयथा इत्यतः । येत्वनुवर्तयन्ति ते पूर्वसूत्रे तिसृचतसृग्रहणमनुवर्तयन्ति ॥