मघवा बहुलम्

6-4-128 मघवा बहुलम् असिद्धवत् अत्र आभात् त्रु

Kashika

Up

index: 6.4.128 sutra: मघवा बहुलम्


मघवनित्येतस्य अङ्गस्य बहुलं तृ इत्ययमादेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति। मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। मघोनी। माघवनम्।

Siddhanta Kaumudi

Up

index: 6.4.128 sutra: मघवा बहुलम्


मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.128 sutra: मघवा बहुलम्


मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥

Balamanorama

Up

index: 6.4.128 sutra: मघवा बहुलम्


मघवा बहुलम् - ॒आन्नुक्षन्पूषन्प्लीहनक्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह — मघवा बहुलम् । 'अर्वणस्त्रासौ' इत्यतः 'तृ' इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् ।मघवे॑ति तु षष्ठर्थे प्रथमा । तदाह — मघवन्शब्देस्येत्यादिना । ऋ इदिति ।उपदेशेऽजनुनासिक इत् इति ऋकार इत्संज्ञक इत्यर्थः । 'ऋ' इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । अलोऽन्त्यस्येति नकारस्य तकारः । सर्वादेशस्तु न,नानुबन्धकृतमनेकाल्त्वमि॑ति वचनात् । मघवत् स् इति स्थिते- ।

Padamanjari

Up

index: 6.4.128 sutra: मघवा बहुलम्


मघवेति । षष्ठ।ल्र्थे प्रथमा । मघोन इति । श्वयुवमधोनाम् इति सम्प्रसारणं पूर्वत्वमाद्गुणः । ननु च मघमस्यास्तीति मघवान्, मघमिति धननाम्, च्छन्दसीवनिपौ वक्तव्यौ इति वनिप्, सम्प्रसारणे कृते पूर्वस्य भसंज्ञायां यस्येतिलोपप्रसङ्गः । व्याश्रयत्वादसिद्धत्वमपि नाशङ्कनीयम् शसि सम्प्रसारणे यस्येतिलोपः । य एवं तर्ह्यन्यदेवेदमव्युत्पन्नं भविष्यति, तथा चैतस्य भाषायां प्रयोग उपपद्यते । यथा तु भाष्यम्, तथा न केवलमस्यैव अर्वणोऽपि भाषायामसाधुः प्रयोगः । आह हि - अर्वणस्तृ मघोनश्च न शिष्यंछान्दसं हि तत् । मतुब्वन्योर्विधानाच्च च्छन्दस्युभयदर्शनात् ॥ ऋधातोर्वनिपि गुणे च कृते अर्वन्निति रुपम् । तस्माद्विचि मतुपि अर्वन्तावित्यादि सिद्धं भवति, वनिप्यर्वणामित्यादि, मघशब्दादपि प्रत्ययद्वये सिद्धं भवति, नार्थः सूत्रद्वयेनेत्यर्थः । मघोन इत्यादौ तु एयस्येतिलोपाभावश्छान्दसत्वादेव । माघवनमिति । अन् इति प्रकृतिभावः ॥