तिरसस्तिर्यलोपे

6-3-94 तिरसः तिरि अलोपे उत्तरपदे अञ्चतौ वप्रत्यये

Sampurna sutra

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


अप्रत्यये अलोपे अञ्चतौ उत्तरपदे तिरसः तिरि

Neelesh Sanskrit Brief

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


'तिरस्' इत्यस्मात् परं यदि 'अञ्च्' धातोः अलुप्त-अकारात्मकं लुप्तप्रत्ययान्तं च रूपमागच्छति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति ।

Neelesh English Brief

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


If the word 'तिरस्' is followed by a लुप्तप्रत्ययान्त-अञ्च् word from which an अकार has not been removed, then the word 'तिरस्' is converted to 'तिरि'.

Kashika

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


तिरसित्येतस्य तिरि इत्ययमादेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदेऽलोपे, यदा अस्य लोपो न भवति। तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः। अलोपे इति किम्? तिरश्चा। तिरश्चे। अचः इत्यकारलोपः।

Siddhanta Kaumudi

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥

Neelesh Sanskrit Detailed

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -

1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )

2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।

3) अलोपे = अस्य शब्दस्य विग्रहः अयम् - 'अकारस्य लोपः = अल्लोपः ; न विद्यते अल्लोपः यस्मिन्, सः = अलोपः' । इत्युक्ते, यस्मिन् शब्दे अकारस्य लोपः न कृतः अस्ति, सः शब्दः अत्र 'अलोपः' इत्यनेन निर्दिश्यते । अयमपि 'अञ्चतौ' इत्यस्यैव विशेषणमस्ति, अतः अनेन तादृशः अञ्च्-शब्दः स्वीक्रियते यस्य अकारस्य लोपः कृतः नास्ति ।

4) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे 6.3.1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।

5) तिरसः = तिरस्-शब्दस्य स्थाने। इयं स्थानषष्ठी ।

6) तिरि = अयमादेशः अस्ति ।

अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -

यदि अञ्च्-धातोः लुप्तप्रत्ययान्तं रूपम्, यस्मिन् अकारस्य लोपः न कृतः अस्ति, (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'तिरस्' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति ।

यथा, 'तिरस् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । तथा च, अञ्च्-इत्यस्य नकारस्य अपि अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन लोपः भवति, अतः 'तिरस् + अच्' इति प्रातिपदिकं जायते । अस्य प्रथमैकवचनस्य प्रक्रियायाम् 'तिरस् + अच् + सुँ' इत्यत्र अकारलोपः न भवति, अतः वर्तमानसूत्रेण तिरस्-इत्यस्य 'तिरि' इति आदेशः भवति, अतः 'तिर्यङ्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति ।

यत्र 'अञ्च्' धातोः अकारस्यापि लोपः भवति, तत्र तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'तिरस् + अच्' शब्दस्य द्वितीयाबहुवचनस्य प्रक्रिया इयम् -

तिरस् + अच् + शस्

→ तिरस् + च् + अस् [अचः 6.4.138 इति अकारस्य लोपः]

→ तिरश्चः [अकारलोपे कृते वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तिरस्-इत्यस्य तिरि-आदेशः न भवति । अग्रे विसर्गनिर्माणं श्चुत्वं च कृत्वा रूपं सिद्ध्यति ।]

Balamanorama

Up

index: 6.3.94 sutra: तिरसस्तिर्यलोपे


तिरसस्तिर्यलोपे - तिरसस्तिर्यलोपे । 'तिरि' इति लुप्तप्रथमाकम् । '॒अञ्चतावप्रत्यये' इत्यनुवर्तते । न विद्यते 'अचः' इत्यल्लोपो यस्य सअलोपः॑, तस्मिन्निति विग्रहः । तदाह — अलुप्तेत्यादिना । तिर्यङिति । तिरः-अञ्चतीति विग्रहे क्विन्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चेति । शसादावचि 'अचः' इत्यल्लोपसत्त्वान्नतिर्यादेशः । सस्य श्चुत्वेन श इति भावः ।