समः समि

6-3-93 समः समि उत्तरपदे अञ्चतौ वप्रत्यये

Sampurna sutra

Up

अप्रत्यये अञ्चतौ उत्तरपदे समः समि

Neelesh Sanskrit Brief

Up

'सम्' उपसर्गात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सम्' इत्यस्य 'समि' इति आदेशः भवति ।

Neelesh English Brief

Up

If the 'सम्' उपसर्ग is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then 'सम्' is converted to 'समि'.

Kashika

Up

समित्येतस्य समि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। सम्यङ्, सम्यञ्चौ, सम्यञ्चः॥

Siddhanta Kaumudi

Up

वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥

Laghu Siddhanta Kaumudi

Up

वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः - 1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । ) 2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति । 3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् <<अलुगुत्तरपदे>> 6.3.1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । 4) समः = सम्-उपसर्गस्य स्थाने । इयं स्थानषष्ठी । 5) समि = अयमादेशः अस्ति । अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति - यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सम्' इति उपसर्गः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सम्' उपसर्गस्य 'समि' इति आदेशः भवति । यथा, 'सम् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सम्' इत्यस्य 'समि' इति आदेशः भवति । अग्रे <<अनिदितां हलः उपधायाः क्ङितो>> 6.4.24 इत्यनेन नलोपं कृत्वा 'सम्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सम्यङ्, सम्यञ्चौ, सम्यञ्चः' एतादृशानि रूपाणि सिद्ध्यन्ति ।

Balamanorama

Up

<<समः समि>> - समः समि ।समी॑ति लुप्तप्रथमाकम् । 'अञ्चतावप्रत्यये' इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे — अप्रत्ययेति । समीचेति । 'अचः' इति लोपे 'चौ' इति दीर्घः ।

Padamanjari

Up