6-3-95 सहस्य सध्रिः उत्तरपदे अञ्चतौ वप्रत्यये
अप्रत्यये अञ्चतौ उत्तरपदे सहस्य सध्रिः
'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति ।
If the word 'सह' is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then 'सह' is converted to 'सध्रि'.
सहेत्येतस्य सध्रिरित्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। सध्र्यङ्, सध्र्यञ्चौ,सध्र्यञ्चः। सध्रीचः। सध्रीचा॥
वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥
तथा। सध्र्यङ्॥
'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः - 1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । ) 2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति । 3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् <<अलुगुत्तरपदे>> 6.3.1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । 4) सहस्य = सह-शब्दस्य स्थाने । इयं स्थानषष्ठी । 5) सध्रि = अयमादेशः अस्ति । अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति - यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सह' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सह' उपसर्गस्य 'सध्रि' इति आदेशः भवति । यथा, 'सह + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अग्रे <<अनिदितां हलः उपधायाः क्ङितो>> 6.4.24 इत्यनेन नलोपं कृत्वा 'सध्र्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सध्य्रङ् , सध्र्यञ्चौ , सध्र्यञ्चः' एतादृशानि रूपाणि भवन्ति ।
<<सहस्य सध्रिः>> - सहस्य सध्रिः ।सहस्य सध्रिः स्यादप्रत्ययान्तेऽञ्चतौ परे इति व्याख्यानं सुगमत्वादुपेक्षितम् । सध्र्यङिति । सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्र्यादेशे यण् ।
यदाऽस्य लोपो न भवीति । अकारस्य लोपे सतीत्ययं त्वर्थो न भवति व्याख्यानात् ॥