6-1-33 अभ्यस्तस्य च ह्वः सम्प्रसारणम्
ह्व इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम् — अभ्यस्तस्य यो ह्वयतिः। कश्चाभ्यस्तस्य ह्वयतिः? कारणम्। तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणं भवति। जुहाव। जोहूयते। जुहूषति॥
अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥
अत्र'ह्वः' इत्यनुवर्तमानस्य यद्यभ्यस्तर्येत्यनेन सामानाधिकरण्यं स्यात्, तदा कृते द्विर्वचनेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणेन भविथव्यम्, ततश्चाभ्यासस्य सम्प्रसारणं न स्यात्;'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात्। आकारहकाराभ्यां व्यवहितत्वादप्रतिषेध इति चेतु? न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाह्गग्रहणं तत्र चोदयिष्यति, न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाङ्गग्रहणं तत्र चोदयिष्यति, एतच्च तत्रैव व्यक्तं व्याख्यास्यते। तमिमं सामानाधिकरण्ये दोषं पश्चन्नाह -तदभ्यस्तस्येत्यनेन व्यधिकरणमिति। एतदेव स्फोरयति -अब्यस्तस्य यो ह्वयतिरिति। तेन किं सिद्धं भवति? इत्याह -तेनेति ॥