6-1-189 अभ्यस्तानाम् आदिः उदात्तः सार्वधातुक् अचि अनिटि
अभ्यस्तानामजादावनिटि लसार्वधातुके परत आदिरुदात्ता भवति। दद॑ति। दद॑तु। दध॑ति। दध॑तु। जक्ष॑ति। जक्ष॑तु। जाग्॑रति। जाग्र॑तु। अचीत्येव — द॒द्यात्। अनिटीत्येव — ज॒क्षि॒तः। आदिरिति वर्तमाने पुनरादिग्रहणं नित्यार्थम् ॥
अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ॥