चितः

6-1-163 चितः अन्तः उदात्तः

Sampurna sutra

Up

index: 6.1.163 sutra: चितः


चितः उदात्तः

Neelesh Sanskrit Brief

Up

index: 6.1.163 sutra: चितः


चित्-प्रत्ययान्त-समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।

Neelesh English Brief

Up

index: 6.1.163 sutra: चितः


The word ending in चित्-प्रत्यय becomes अन्तोदात्त.

Kashika

Up

index: 6.1.163 sutra: चितः


चितोऽन्त उदात्तो भवति। भञ्जभासमिदो घुरच् 3.2.161 भङ्गुरम्। भासुरम्। मेदुरम्। आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 2.4.70। कुण्डिनाः। चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते। बहुपटुः। उच्चकैः।

Siddhanta Kaumudi

Up

index: 6.1.163 sutra: चितः


अन्त उदात्तः स्यात् ।<!चितः सप्रकृतेर्बह्वकजर्थम् !> (वार्तिकम्) ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ।

Neelesh Sanskrit Detailed

Up

index: 6.1.163 sutra: चितः


यस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'चित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति । यथा -

  1. भञ्जभासमिदो घुरच् 3.2.161 इत्यनेन 'भास' धातोः 'घुरच्' अयं कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे 'भास + घुरच् → भा॒सु॒र' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।

  2. लटः शतृशानचौ अप्रथमासमानाधिकरणे 3.2.124 इत्यनेन आत्मनेपदिभ्यः धातुभ्यः 'शानच्' अयम् कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे 'पच + शानच् → प॒च॒मा॒न' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'चितः' अयम् शब्दः येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'चित्-प्रत्ययः यस्य अन्ते अस्ति सः' अस्मिन् अर्थे प्रयुक्तः अस्ति । अतः अत्र प्रकृति-प्रत्यययोः मेलनेन यस्य पदस्य निर्माणम् भवति, तस्य निर्देशः क्रियते । अलोऽन्त्यस्य 1.1.52 इत्यनेन अस्य शब्दस्य अन्तिमस्वरः उदात्तः भवति ।

  2. अनेन सूत्रेण 'पदस्य' अन्तिमस्वरस्य उदात्तत्वम् न दीयते, अपितु प्रकृति-प्रत्यययोः समुदायस्य अन्ते विद्यमानस्य स्वरस्य उदात्तत्वं दीयते, एतत् स्मर्तव्यम् । यथा, उरच्-प्रत्ययान्तस्य 'भासुर' शब्दस्य अन्तिमः स्वरः (इत्युक्ते रेफोत्तरः अकारः) अनेन सूत्रेण इत्संज्ञकः भवति ।

Padamanjari

Up

index: 6.1.163 sutra: चितः


भङ्गुरमिति।'चजोः कु घिण्यतोः' इति कुत्वम्। कुण्डिना इति। कुण्कडशब्दान्मत्वर्थीय इनिः, स्त्रियां ङीप्, कुण्डिनीशब्दो मध्योदातः, कुण्डिन्या अपत्यानि बहूनि, गर्गादियञो बहुषु लुक्, परिशिष्टस्य कुण्डिनजादेशः। चिति प्रत्यये इति। ननु च नात्र चितीति प्रत्ययग्रहणं कुण्कडिनजादेरपि ग्रहणात् ? तस्मादयमत्रार्थः - यत्र चित्प्रत्ययस्तत्र समुदायस्येष्यत इति। कथं पुनरेतल्लभयते? चित इत्यवयवादेषा षष्ठी, न कार्यिणः, चितोऽवयवस्य सम्बन्धी यः समुदायः स कार्या। अथ वा -चिदस्यास्तीति चितः, अर्शाअदेराकृतिगणत्वादच् प्रत्ययः, षष्ठ।ल्र्थे प्रथमा, तेन चिद्वतः समुदायस्येत्यर्थः। अत्र च लिङ्गम्-अकः चित्करणम्, अन्यथा तस्यैकाच्त्वादनर्थकं तत्स्यात्। कुण्कडिनजादेर्व्यपदेशिवद्भावेन चिद्वत्वम् ॥