3-2-161 भञ्जभासमिदः घुरच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
भञ्ज भास मिद इत्येतेभ्यो घुरच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। भङ्गुरं काष्ठम्। घित्त्वात् कुत्वम्। भासुरं ज्योतिः। मेदुरः पशुः। भञ्जेः कर्मकर्तरि प्रत्ययः, स्वभावात्॥
भङ्गुरः । भासुरः । मेदुरः ॥
<<भञ्जभासमिदो घुरच्>> - भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी । एभ्यो घुरच् स्ात्तच्छीलादिष्वित्यर्थः । घचावितौ । भङ्गुर इति ।चजो॑रिति कुत्वम् ।
भञ्चभासमिदो घुरच् 'भञ्चो आमर्द्दने' 'भासृ दीप्तौ,' ठ्ञिमिदा स्नेहनेऽ॥