5-4-79 अवसमन्धेभ्यः तमसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
अव-सम्-अन्धेभ्यः तमसः अच्
'अव', 'सम्', 'अन्ध' एतेभ्यः परः विद्यमानात् तमस्-शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति ।
अव सम् अन्ध इत्येतेभ्यो यः परस्तमःशब्दः, तदन्तात् समासादच् प्रत्ययो भवति। अवतमसम्। सन्तमसम्। अन्धतमसम्॥
अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥
यस्मिन् समासे 'अव', 'सम्' 'अन्ध' एते शब्दाः पूर्वपदरूपेण विद्यते, तथा च 'तमस्' इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा - 1. अवहीनं तमः [<<कुगतिप्रादयः>> 2.2.18 इति तत्पुरुषसमासः] = अव + तमस् + अच् [वर्तमानसूत्रेण अच् प्रत्ययः] → अवतमस अवहीनम् तमः तत् अवतमसम् । विशेषः - अत्र 'अवहीनं तमसा' इति बहुव्रीहिसमासः अपि भवितुमर्हति । 2. सङ्गतम् तमः [<<कुगतिप्रादयः>> 2.2.18 इति तत्पुरुषसमासः] → सम् + तमस् + अच् [वर्तमानसूत्रेण अच् प्रत्ययः] → सन्तमस सङ्गतम् तमः तत् सन्तमसम् । विशेषः - अत्र 'सङ्गतं तमसा' इति बहुव्रीहिसमासः अपि भवितुमर्हति । 3. अन्धं च तत् तमः च [<<विशेषणम् विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = अन्ध + तमस् + अच् → अन्धतमस विशेषः - अत्र 'अन्धम् करोति' इत्यस्मिन् अर्थे <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इत्यनेन अन्ध-शब्दात् अच्-प्रत्ययं कृत्वा 'अन्ध + अच् → अन्ध' इति शब्दः जायते । अन्धं करोति इत्यस्मिन् अर्थे निर्मितः अयम् 'अन्ध' शब्दः ततः समासे प्रयुज्यते ।
<<अवसमन्धेभ्यस्तमसः>> - अवसमन्धेभ्यस्तमसः । अव समन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । अवहीनं तम इति विग्रहः । प्रादिसमासः । संतमसमिति । संततं तम इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टउपघाते' चुरादिः । दृष्ट प्रतिबध्नातीत्यर्थः । पचाद्यजिति ।नन्दिग्राहिपचादिभ्यो ल्युणिन्यचः॑ इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः । फलति । गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मधारयादच् ।
अवगतं तमोऽवतमसम्, सन्ततं तमः सन्तमसम्, प्रादिसमासौ। अन्दं करोति अन्धयति, अन्धयतेः पचाद्यच् - अन्धम्, तच्च ततमस्च अन्धतमसम् ॥