5-4-78 ब्रह्महस्तिभ्यां वर्चसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
ब्रह्म-हस्तिभ्याम् वर्चसः अच्
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
यस्य समासस्य पूर्वपदम् 'ब्रह्मन्' उत' हस्तिन्' एतेषु कश्चन शब्दः अस्ति, तथा च उत्तरपदम् 'वर्चस्' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तः प्रत्ययः भवति ।
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस् तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्। पल्यराजभ्यां चेति वक्तव्यम्। पल्यवर्चसम्। राजवर्चसम्।
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ।<!पल्यराजभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ पल्यवर्चसम् । राजवर्चसम् ॥
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
यस्मिन् समासे 'ब्रह्मन्' उत 'हस्तिन्' एतेषु कश्चन शब्दः पूर्वपदरूपेण विद्यते, तथा च 'वर्चस्' (= तेजः, दीप्तिः, glow) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति प्रत्ययः समासस्य अन्ते विधीयते । यथा -
= ब्रह्मन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]
→ ब्रह्म + वर्चस् + अ [पूर्वपदस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ ब्रह्मवर्चस
ब्रह्मणः वर्चः ब्रह्मवर्चसम् ।
= हस्तिन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]
→हस्ति + वर्चस् + अ [पूर्वपदस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ हस्तिवर्चस
हस्तिनः वर्चः हस्तिवर्चसम् ।
अत्र एकं वार्त्तिकम् ज्ञातव्यम् - <!पल्य-राजशब्दाभ्याम् चेति वक्तव्यम्!> । यस्मिन् समासे 'पल्य' तथा 'राजन्' एतौ शब्दौ पूर्वपदरूपेण विद्येते, तथा च 'वर्चस्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् शब्दात् अपि अच्-प्रत्ययः भवति । यथा - पल्यस्य वर्चः पल्यवर्चसम् । राज्ञः वर्चः राजवर्चसम् ।
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
ब्रह्महस्तिभ्याम् वर्च्चसः - ब्राहृ । शेषपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । ब्राहृवर्चसमिति । ब्राहृणो वर्चेति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्चेति विग्रहः ।पल्यराजभ्यामिति । आभ्यां परो यो वर्चश्शब्दस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसं, तदर्हति पल्यः । मांसभोजीत्यर्थः । तस्य वर्चेति विग्रहः । राजवर्चसमिति । राज्ञां वर्चेति विग्रहः ।
index: 5.4.78 sutra: ब्रह्महस्तिभ्याम् वर्च्चसः
वर्चःउदीप्तिः। उदाहरणेषु षष्ठीसमासः ॥