5-4-72 पथः विभाषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः नञः तत्पुरुषात्
index: 5.4.72 sutra: पथो विभाषा
नञः तत्पुरुषात् पथः विभाषा समासान्ताः
index: 5.4.72 sutra: पथो विभाषा
'पथिन्' इति शब्दः यस्य उत्तरपदे विद्यते तस्मात् नञ्-तत्पुरुषशब्दात् समासान्तप्रत्ययाः विकल्पेन भवन्ति ।
index: 5.4.72 sutra: पथो विभाषा
नञः परो यः पथिन्शब्दः, तदन्तात् तत्पुरुषात् समासान्तो विभाषा न भवति। पुर्वेण नित्यः प्रतिसेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः।
index: 5.4.72 sutra: पथो विभाषा
नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥। इति सर्वसमासान्तप्रकरणम् ।
index: 5.4.72 sutra: पथो विभाषा
अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुषशब्दानां विषये नञस्तत्पुरुषात् 5.4.71 इत्यनेन सूत्रेण निषिध्यन्ते । परन्तु यदि पथिन्-शब्दस्य विषये नञ्-तत्पुरुषसमासः विधीयते, तर्हि एते प्रत्ययाः वर्तमानसूत्रेण विभाषा (= विकल्पेन) भवितुमर्हन्ति ।
यथा - 'न पन्थाः' इत्यस्मिन् अर्थे 'अ + पथिन्' इति नञ्-तत्पुरुष-समासे प्राप्ते प्रक्रियायाम् ऋक्पूरब्धूःपथामानक्षे 5.4.74 इत्यनेन 'अ' इति प्रत्ययः भवति । अयम् प्रत्ययः प्रारम्भे नञस्तत्पुरुषात् 5.4.71 इत्यनेन सूत्रेण निषिध्यन्ते, परन्तु वर्तमानसूत्रेण अयम् निषेधः विकल्प्यते, अतः पक्षे 'अ' प्रत्ययः भवत्येव । यथा -
[अ-प्रत्ययस्य निषेधपक्षः = ] न पन्थाः = अ + पथिन् → अपथिन् ।
[अ-प्रत्ययस्य प्रयोगपक्षः =] न पन्थाः = अ + पथिन् + अ → अपथ । नस्तद्धिते 6.4.144 इति टिलोपः ।
अतः - न पन्थाः = अपन्थाः अपथम् वा । (अत्र निर्मितः 'अपथ' शब्दः अपथं नपुंसकम् 2.4.30 इत्यनेन नपुंसकलिङ्गे एव विधीयते ।
स्मर्तव्यम् -
पूर्वसूत्रेण उक्तः विधिः अनेन सूत्रेण विकल्प्यते, अतः इयम् 'प्राप्तविभाषा' अस्ति । अस्मिन् विषये न वेति विभाषा 1.1.44 इत्यत्र विस्तारेण उक्तमस्ति ।
अस्मिन् सूत्रे प्रयुक्तः 'विभाषा' इति शब्दः 'न' इत्यस्य विकल्पं कारयति । इत्युक्ते, पूर्वसूत्रेण उक्तः निषेधः वर्तमानसूत्रेण विकल्प्यते । समासान्तप्रत्ययाः पक्षे भवितुमर्हति इत्याशयः ।
नञ्-बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'न विद्यते पन्थाः अस्मिन् देशे' इत्यत्र नञ्-बहुव्रीहिसमासे कृते 'अ + पथिन्' इति स्थिते अत्र तु ऋक्पूरब्धूःपथामानक्षे 5.4.74 इत्यनेन 'अ' प्रत्ययः नित्यमेव भवति ।अ + पथिन् + अ = अपथ । यथा -
न विद्यते पन्थाः अस्मिन् देशे सः अपथः देशः ।
index: 5.4.72 sutra: पथो विभाषा
पथो विभाषा - पथो विभाषा । पथ इति । पथिन्शब्दादित्यर्थः । अपथिमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः ।॒ऋक्पूः॑ इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः ।पथः सङ्ख्याव्ययादे॑रिति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाऽभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवेत्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात्ऋक्पू॑रित्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः ।*इति बालमनोरमायाम् समासान्तप्रकरणम् ।*** अथ समासाश्रयविधिः । — — — — — — — —