2-4-30 अपथं नपुंसकम्
अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते मूढः। इह कस्माद् न भवति — अपथो देशः, अपथा नगरी? तत्पुरुष इति वर्तते॥
तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥
<<अपथं नपुंसकम्>> - अपथं नपुंसकं । न-पन्था इति विग्रहे नञ्समासे नञो नस्य लोपे 'ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति ।परवल्लिङ्ग॑मित्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः । अपन्था इति । 'पथो विभाषा' इति समासान्तविकल्पः ।पथः संख्याव्ययादेः॑ इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् ।
अपथं नपुंसकम्॥'पथः संख्याव्ययादेः' इत्यस्यापरकालभावित्वादयमारम्भः। अपथमिति।'पथो विभाषा' इति यदा समासान्तप्रतिधेषो न भवति तदा ठृक्पूरब्धूःऽ समासान्तः। समासान्तनिर्देशाच्च तदभावपक्षे पुंस्त्वमेव भवति - अपन्था इति। तत्पुरुष इति वर्ततैति। एतदर्थमेव'स नपुंसकम्' इत्यस्यानन्तरं न कृतम्॥