5-4-71 नञः तत्पुरुषात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः
index: 5.4.71 sutra: नञस्तत्पुरुषात्
नञः तत्पुरुषात् समासान्ताः न
index: 5.4.71 sutra: नञस्तत्पुरुषात्
नञ्-तत्पुरुष-समासात् समासान्तप्रत्ययाः न भवन्ति ।
index: 5.4.71 sutra: नञस्तत्पुरुषात्
नञः परे वक्ष्यमाणा ये राजादयस् तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा असखा। अगौः। तत्पुर्षातिति किम्? अनृचो माणवकः। अधुरं शकटम्।
index: 5.4.71 sutra: नञस्तत्पुरुषात्
समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥
index: 5.4.71 sutra: नञस्तत्पुरुषात्
समासान्ताः 5.4.68 अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुष-समासस्य विषये न भवन्ति ।
यथा - 'न राजा' (not a king) अस्मिन् अर्थे नञ्-तत्पुरुषसमासेन 'अ + राजन्' इति प्राप्ते अत्र वस्तुतः राजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन टच्-प्रत्ययः विधीयते, परन्तु सः वर्तमानसूत्रेण निषिध्यते, अतः अत्र 'अराजन्' इत्येव प्रातिपदिकं सिद्ध्यति । न राजा = अराजा ।
एवमेव - न सखा = असखा । अत्रापि राजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन विहितः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते ।
ज्ञातव्यम् - नञ्-बहुव्रीहिसमासस्य विषये अयम् निषेधः न प्रवर्तते । यथा - 'अविद्यमाना धूः यस्य सः अधुरः' । अत्र ऋक्पूरब्धूःपथामानक्षे 5.4.74 इति 'अ'-प्रत्ययः भवत्येव ।
index: 5.4.71 sutra: नञस्तत्पुरुषात्
नञस्तत्पुरुषात् - निन्दानवगमान्न टचो निषेधः । नञस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्ट — समासान्तो नेति । नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात्ऋक्पू॑रिति समासान्तस्य न निषेधः ।