5-4-60 समयात् च यापनायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
यापनायाम् समयात् कृञः डाच्
'समय' शब्दात् कृ-धातोः योगे यापनायाम् गम्यमानायाम् स्वार्थे डाच्-प्रत्ययः भवति ।
कृञ इत्येव। कृषाविति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः समयः, तस्यातिक्रमणं यापना। समयशब्दाद् यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोतीत्यर्थः। यापनायामिति किम् ? समयं करोति॥
कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥
'यापना' (= विलम्बनम्, कालक्षेप, delay) अस्मिन् सन्दर्भे 'कृ' धातोः योगे 'समय' शब्दात् स्वार्थे डाच्-प्रत्ययः भवति । यथा - समयम् यापयति इत्येव = समय + डाच् + कृ → समया करोति । प्रक्रिया इयम् - समय + डाच् → समय + आ [इत्संज्ञालोपः] → समय् + आ [<<टेः>> 6.4.143 इति टिलोपः] → समया स्मर्तव्यम् - 1. 'यापनायाम्' इति निर्देशात् अत्र विग्रहवाक्ये 'यापयति' इति शब्दः प्रयुज्यते । 2. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - समयाकृत्य / समयाकृतः - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'समया करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'समया करोति' इत्येव वक्तव्यम्, न हि 'करोति समया' इति । 3. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'समयम् यापयति' इति ।
<<समयाच्च यापनायाम्>> - समयाच्च । कृषाविति निवृत्तम् । समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह यापनायामित्याह — यापयतीति.अतिक्रान्तं करोतीत्यर्थः ।अद्येदं कर्तव्य॑मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत् ।
समयाकरोतीति। ठद्य मे पारवाश्यं श्वः परश्वो वास्य समयःऽ इत्येवं यो बहुषु दिवसेषु अतिवर्तते स एवमुत्यते। समयं करोतीति। समयःउनियमः, सङ्गमो वा - समयनं समय इति ॥