तदधीनवचने

5-4-54 तदधीनवचने प्रत्ययः परः च आद्युदात्तः च तद्धिताः कृभ्वस्तियोगे साति सम्पदा

Sampurna sutra

Up

तदधीनवचने कृ-भू-अस्ति योगे सम्पदा च सातिः

Neelesh Sanskrit Brief

Up

'तस्य अधीनः' अस्मिन् सन्दर्भे 'कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् साति-प्रत्ययः भवति ।

Kashika

Up

अभूततद्भाव इति निवृत्तम्, अर्थान्तरोपादानात्। कृभ्वस्तियोगे संपदा चेति वर्तते। तदधीनं तदायत्तं तत्स्वामिकमित्यर्थः। स्वामिसामान्यमीशितव्यसामान्यं च तदधीनशब्देन निर्दिश्यते। स्वामिविशेषवाचिनः प्रातिपदिकादीशितव्येऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः संपदा च योगे। राजाधीनं करोति, राजसात्करोति। राजसाद्भवति। राजसात्स्यात्। राजसात्संपद्यते। ब्राह्मणसात्करोति। ब्राह्मणसाद्भवति। ब्राह्मणसात्स्यात्। ब्राह्मणसात्संपद्यते॥

Siddhanta Kaumudi

Up

सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तस्य अधीनः' (dependent on / belongs to / captured by / obtained by etc) अस्मिन् सन्दर्भे कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् साति-प्रत्ययः भवति । अधिक-स्पष्टतायै कानिचन उदाहरणानि पश्यामः - 1. शत्रुः राज्ञः अधीनः भवति (The enemy gets captured by the king) इत्यस्मिन् अर्थे 'राजन्' शब्दात् वर्तमानसूत्रेण 'साति' इति प्रत्ययः विधीयते । । प्रक्रिया इयम् - राजन् + साति → राजन् + सात् [तकारोत्तरः इकारः उच्चारणार्थः अस्ति, तकारस्य इत्संज्ञाबाधनार्थम् च स्थापितः अस्ति । अतः तस्य लोपः भवति] → राज + सात् [अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति पदसंज्ञा । पदान्ते विद्यमानस्य प्रातिपदिकस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → राजसात् यथा - शत्रुः राजसात् भवति । अयम् साति-प्रत्ययः 'कृ', 'भू', 'अस्' तथा 'सम्पद्' - एतेषाम् धातूनाम् योगे भवति । यथा - अ) सेनापतिः शत्रुम् राज्ञः अधीनम् करोति इत्येव = सेनापतिः शत्रुम् राजसात् करोति । आ) शत्रुः राज्ञः अधीनः भवति इत्येव = शत्रुः राजसात् भवति । इ) शत्रुः राज्ञः अधीनः स्यात् इत्येव = शत्रुः राजसात् स्यात् । ई) शत्रुः राज्ञः अधीनः सम्पद्यते इत्येव = शत्रुः राजसात् सम्पद्यते । एवमेव अन्यानि उदाहरणानि - 2. अर्जुनः वृक्षमग्निसात् करोति । वृक्षः अग्निसात् भवति / स्यात् / सम्पद्यते । 3. देवदत्तः व्याकरणमात्मसात् करोति । व्याकरणमात्मसात् भवति / स्यात् /सम्पद्यते । 4. पिता पुत्रम् ब्राह्मणसात् करोति । ब्राह्मणसात् भवति / स्यात् / सम्पद्यते । आदयः । स्मर्तव्यम् - 1. <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते, अतः अनेन सूत्रेण उक्तः 'सात्' प्रत्ययः विकल्पेनैव भवति । पक्षे वाक्यस्य अपि प्रयोगः भवितुमर्हति । यथा - सेनापतिः शत्रुम् राजाधीनम् करोति । शत्रुः राजाधीनः भवति । 2. साति-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Balamanorama

Up

<<तदधीनवचने>> - तदधीनवचे । शेषपूरणेन सूत्रं व्याचष्टे — सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः ।

Padamanjari

Up

स्वामिसामान्यमित्यादि। इह ठधिरीश्वरेऽ इति अधिशब्दस्य कर्मप्रवचनीयसंज्ञा तेन योगे'यस्मादधिकं यस्य चेश्वरवचनम्' इति ईश्वरवाचिनः सप्तमी, ईश्वरश्चेशितव्यापेक्षः। अधिशब्दश्चायं शौण्डादिषु पठ।ल्ते इति सप्तमीसमासः, ततोऽध्युतरपदलक्षणः खः, तत्र कृते ब्रह्मदताधीनाः पञ्चाला इति सामानाधिकरण्यदर्शनादधिशब्द ईशितव्यसामान्यभिधायी, पञ्जालादयस्तु तद्विशेषवचना इति गम्यते; ततश्च स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीतशब्देनोच्यते, तत्र स्वामिसामान्यं प्रकृत्यर्थः, सामान्यं च विशेषोपलक्षणार्थमिति विशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्वाहस्वामिविशेषवाचिन इति ॥