5-4-53 अभिविधौ सम्पदा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कृभ्वस्तियोगे विभाषा साति
index: 5.4.53 sutra: अभिविधौ सम्पदा च
अभूततद्भावे अभिविधौ कृ-भू-अस्ति-योगे सम्पदा च विभाषा सातिः
index: 5.4.53 sutra: अभिविधौ सम्पदा च
अभूतपूर्वस्य विकारस्य अभिविध्या सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे तथा च 'सम्पद्' धातोः योगे स्वार्थे विकल्पेन 'साति' प्रत्ययः भवति ।
index: 5.4.53 sutra: अभिविधौ सम्पदा च
अभिविधिः अभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा। अग्निसात्सम्पद्यते, अग्निसाद्भवति। उदकसात्सम्पद्यते, उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः? यत्र एकदेशेन अपि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिः, यथा अस्यां सेनायामुत्पातेन सर्वं शस्त्रमग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति।
index: 5.4.53 sutra: अभिविधौ सम्पदा च
संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥
index: 5.4.53 sutra: अभिविधौ सम्पदा च
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5.4.50 इत्यनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5.4.50 इत्यत्रैव द्रष्टव्यः) । यदि अयम् विकारः अभिविधिरूपेण सम्पद्यते, तर्हि तस्मात् विकारवाचिनः शब्दात् 'कृ' 'भू' ,'अस्' तथा च 'सम्पद्' एतेषाम् योगे 'साति' इति प्रत्ययः विकल्पेन भवति । पक्षे 'कृ' 'भू' ,'अस्' एतेषाम् योगे 'च्वि' प्रत्ययः अपि भवितुमर्हति ।
किम् नाम अभिविधिः ? यत्र बहूनाम् वस्तूनाम् कस्यचन अवयवस्य विकारः विधीयते, तत्र 'अभिविधिः' अस्तीति सम्बुध्यते । यथा, 'महत्याः वर्षायाः कारणात् नगरे विद्यमानम् सर्वम् लवणमंशरूपेण जलम् सम्पद्यते' - इति चिन्तयामः । The entire salt from all households in the city has become moist due to heavy rains । अस्यां स्थितौ 'सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते' इति वाक्यप्रयोगं कृत्वा' जल' शब्दात् वर्तमानसूत्रेण साति-प्रत्ययः भवितुमर्हति । यथा -
अ) सम्पूर्णमजलम् लवणम् जलम् करोति = जलसात् करोति ।
आ) सम्पूर्णमजलम् लवणम् जलम् भवति = जलसात् भवति ।
इ) सम्पूर्णमजलम् लवणम् जलम् स्यात् = जलसात् स्यात् ।
ई) सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते = जलसात् सम्पद्यते ।
विशेषः - अस्मिन् सूत्रे 'सम्पद्यकर्तरि' इति न अनुवर्तते, अतः अत्र विग्रहवाक्येषु 'कृ', भू', 'अस्' एतेषां प्रयोगः भवितुमर्हति ।
एवमेव अन्यद् एकमुदाहरणम् एतादृशम् - युद्धे सर्वम् अनग्निः शस्त्रमग्निः सम्पद्यते । अस्यैव निर्देशार्थम् 'साति' प्रत्ययं कृत्वा एते प्रयोगाः सिद्ध्यन्ति -
अ) युद्धम् सर्वम् शस्त्रमग्निसात् करोति ।
आ) सर्वं शस्त्रमग्निसात् भवति ।
इ) सर्वं शस्त्रम् अग्निसात् स्यात् ।
ई) सर्वं शस्त्रम् अग्निसात् सम्पद्यते ।
अत्र केचन बिन्दवः स्मर्तव्याः -
यत्र एकस्मिन् वस्तुनि सम्पूर्णरूपेण परिवर्तनं भवति, तत्र विभाषा साति कार्त्स्न्ये 5.4.52 इत्यनेन पूर्वसूत्रेणैव प्रत्ययः विधीयते । यथा - यदि केवलम् एकम् शस्त्रम् सम्पूर्णरूपेण अग्निः सम्पद्यते, तर्हि विभाषा साति कार्त्स्न्ये 5.4.52 इत्यनेन 'शस्त्रमग्निसात् भवति' इति प्रयोगः विधीयते । परन्तु यत्र अनेकानाम् वस्तूनाम् एकदेशस्य (= असकलरूपेण) परिवर्तनं भवति, तत्र वर्तमानसूत्रेण प्रत्ययः विधीयते । यथा - युद्धे विद्यमानानाम् सर्वेषां शस्त्राणां निर्देशम् कृत्वा 'सर्वम् शस्त्रमग्निः भवति' इति यदि उच्यते, तर्हि अस्य अर्थः 'प्रत्येकम् शस्त्रम् एकदेशरूपेण अवश्यमग्निः भवति, परन्तु सम्पूर्णरूपेण भवतीति आवश्यकम् न' - इति आशयः अस्ति । The context here is that 'the entire set of weapons was converted into fire'. This means that every weapon in the set was definitely converted to fire at least to some extent. But whether an individual weapon was converted fully or only partially is not the point of discussion here। अस्यां स्थितौ 'अभिविधिः अस्ति' इति मत्वा वर्तमानसूत्रस्य प्रयोगः भवति । अस्यैव स्पष्टीकरणार्थम् कौमुद्यामुच्यते - एकस्याः व्यक्तेः सर्व-अवयव-अवच्छेदेन अन्यथाभावः कार्त्स्न्यम् ; बहूनां व्यक्तीनां किञ्चित्-अवयव-अवच्छेदेन अन्यथात्वं तु अभिविधिः ।
अनेन सूत्रेण उक्तः साति-प्रत्ययः विकल्पेन भवति । पक्षे 'च्वि' प्रत्ययः अपि भवितुमर्हति । परन्तु अयम् च्वि-प्रत्ययः 'सम्पद्यते' इत्यस्य विषये न भवति, केवलम् 'कृ / भू / अस्' एतेषाम् विषये एव विधीयते । अयम् च्वि-प्रत्ययः अपि विकल्पेन भवति, यतः समर्थानां प्रथमाद्वा 4.1.82 इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते । अतः पक्षे वाक्यस्यापि प्रयोगः भवितुमर्हति । यथा -
अ) युद्धम् सर्वम् शस्त्रमग्नीकरोति / युद्धम् सर्वम् शस्त्रमग्निं करोति ।
आ) सर्वम् शस्त्रमग्नीभवति / सर्वम् शस्त्रमग्निः भवति ।
इ) सर्वम् शस्त्रमग्नीस्युः / सर्वम् शस्त्रमग्निः स्यात् ।
ई) सर्वम् शस्त्रमग्निः सम्पद्यते । (अत्र च्वि-प्रत्ययः नैव प्रयुज्यते) ।
index: 5.4.53 sutra: अभिविधौ सम्पदा च
स तु कृभ्वस्तिभिरेव योगे भवतीति। विभाषाग्रहणस्य विकल्पार्थत्वात्स्वशास्त्रेणैव च्विर्भवतीति सम्पदायोगे तस्याप्रसङ्गात्। स्पष्टीकृतं चैतत्पूर्वग्रन्थे। विभाषाग्रहणानुवृतेश्च्विरप्यभ्यनुज्ञायत इति। समुच्चयार्थे तु तस्मिन्ननेनैव च्विर्भवन्सम्पदापि योगे स्याद्, अभ्यनुज्ञाय इति चानुपपन्नं स्यात्। अथेति। उभयत्र व्याप्तिसम्भवात्प्रश्नः। सर्वा प्रकृतिरिति। प्रकारकार्त्स्न्ये ऽत्र सर्वशब्दः, यथा - सर्वान्नीनो भिक्षुरिति। यथास्यां सेनायामित्यादि। अत्रापि प्रकारकार्त्स्न्य एव सर्वशब्दः, खङ्गप्रासादीनामशेषाणां सस्त्राणामेकदेशेनाप्यग्न्यात्मभावोऽत्र विवक्षितः, न त्वेकस्या अपि सस्त्रव्यक्तेः सर्वात्मना विकाररूपापतिः। एवं वर्षासु लवणमित्यत्रापि। कार्त्स्न्य त्वित्यादि। यत्रैकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापतिः, न कश्चिदवयवः परिहाप्यते, तत्र कार्त्स्न्यं भवति। तस्मादर्थभेदादुभयमुक्तम्, न त्वेकत्रैवान्यतरत्र सम्पदो ग्रहणं कृतमिति ॥