देये त्रा च

5-4-55 देये त्रा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कृभ्वस्तियोगे साति सम्पदा तदधीनवचने

Sampurna sutra

Up

तदधीनवचने देये कृ-भू-अस्ति योगे सम्पदा च सातिः, त्रा च

Neelesh Sanskrit Brief

Up

'तस्य अधीनम् देयम्' अस्मिन् सन्दर्भे 'कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् 'त्रा' तथा 'साति' एतौ प्रत्ययौ भवतः ।

Kashika

Up

तदधीनवचन इत्यनुवर्तते। तस्य विशेषणं देयग्रहणम्। दातव्यं देयम्। तदधीने देये त्रा प्रत्ययो भवति, चकारात् सातिश्च कृभ्वस्तिभिः संपदा च योगे। ब्राह्मणेभ्यो देयमिति यद् विज्ञातम्, तद् यदा तेषां समर्पणेन तदधीनं क्रियते तदा त्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति, ब्राह्मणसात्करोति। ब्राह्मणत्राकरोति। ब्राह्मणत्राभवति। ब्राह्मणत्रास्यात्। ब्राह्मणत्रासंपद्यते। देय इति किम् ? राजसाद्भवति राष्ट्रम्॥

Siddhanta Kaumudi

Up

तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तस्य अधीनः' (dependent on / belongs to / captured by / obtained by etc) अस्मिन् सन्दर्भे कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् <<तदधीनवचने>> 5.4.54 इत्यनेन साति-प्रत्ययः भवति । यदि एतादृशः अधीनत्वं प्राप्तः पदार्थः 'देयः' अस्ति (= नियममनुसृत्य दातव्यः अस्ति), तर्हि तस्य निर्देशार्थम् प्रातिपदिकात् 'त्रा' इति प्रत्ययः वर्तमानसूत्रेण विकल्पेन विधीयते । पक्षे पूर्वसूत्रेण 'साति' इत्यपि प्रत्ययः भवति । यथा - कस्यांश्चन पूजायाम् ब्राह्मणेभ्यः काचन दक्षिणा देया - इति चिन्तयामः । अस्यां स्थितौ यदि सा दक्षिणा ब्राह्मणेभ्यः दीयते, तर्हि सा दक्षिणा 'ब्राह्मणाधीना' भवतीति वक्तुं शक्यते । अयम् ब्राह्मणाधीना दक्षिणा 'देया' अपि अस्ति, अतः अत्र वर्तमानसूत्रेण 'साति' तथा 'त्रा' द्वावपि प्रत्ययौ भवतः । यथा - 'दक्षिणा ब्राह्मणसात् भवति / दक्षिणा ब्राह्मणत्रा भवति' । अनयोः प्रत्यययोः प्रयोगः 'कृ' / 'भू', / 'अस्' / 'सम्पद्' एतेषाम् योगे भवितुमर्हति । यथा - अ) दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति । आ) दक्षिणा ब्राह्मणसात् भवति / ब्राह्मणत्रा भवति । इ) दक्षिणा ब्राह्मणसात् स्यात् / ब्राह्मणत्रा स्यात् । ई) दक्षिणा ब्राह्मणसात् सम्पद्यते / ब्राह्मणत्रा सम्पद्यते । अन्यानि उदाहरणानि - 1. माण्डलिकः धनम् राजसात् राजत्रा वा करोति । धनम् राजसात् राजत्रा वा भवति / स्यात् / सम्पद्यते । 2. धनिकः शुल्कम् शासकसात् शासकत्रा वा करोति । शुक्लम् शासकसात् शासकत्रा वा भवति / स्यात् / सम्पद्यते । आदयः । यत्र 'देयम्' न विद्यते तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पिता पुत्रमाचार्याधीनमाचार्यसात् वा करोति । अत्र यद्यपि पिता आचार्याय पुत्रम् ददाति, तथापि अयं पुत्रः 'देयः' नास्ति, अपितु केवलम् पाठनकार्यार्थम् पुत्रस्य समर्पणम् कृतमस्ति । अतः अत्र वर्तमानसूत्रेण त्रा-प्रत्ययः न भवति । पूर्वसूत्रेण <<तदधीनवचने>> 5.4.54 इत्यनेन 'साति' प्रत्ययः तु भवत्येव । ज्ञातव्यम् - 1. <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते, अतः अनेन सूत्रेण उक्तः 'त्रा' प्रत्ययः विकल्पेनैव भवति । पक्षे 'साति' प्रत्ययः, उत वाक्यस्य अपि प्रयोगः भवितुमर्हति । यथा - दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति / ब्राह्मणाधीनम् करोति । 2. साति-प्रत्ययान्तशब्दाः तथा च 'त्रा' प्रत्ययान्तशब्दाः सर्वेऽपि <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Balamanorama

Up

<<देये त्रा च>> - देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः ।

Padamanjari

Up

ब्राह्मणत्राकरोतीति। स्वरादिष्वयं त्रान्तः पठितव्यः, तेनाव्ययत्वात्सोर्लुक्। अपर आह - तत्रैव'चव्यर्थाश्च' इति पठ।ल्ते, तत्र बहुवचननिर्द्देशादच्व्यर्थस्यापि त्राप्रत्ययस्य साहचर्येण परिग्रहादव्ययत्वमिति। राजसाद्भवति राष्ट्रमिति। पूर्वेण सातिरेव भवति ॥