5-4-34 विनयादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः
विनयादिभ्यः ठक्
विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति ।
विनय इत्येवमादिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः॥ विनय। समय। उपायाद् ध्रस्वत्वं च (ग०सू० १५७)। संगति। कथंचित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। संप्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः॥
विनय एव वैनयिकः । सामयिकः ॥ (गणसूत्रम् -) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥
विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति । विनयादिगणः अयम् - विनय, समय, उपायाद् ह्रस्वत्वं च (गणसूत्रम्), सङ्गति, कथञ्चित्, अकस्मात्, समयाचार, उपचार, समाचार, व्यवहार, सम्प्रदान, समुत्कर्ष, समूह, विशेष, अत्यय । उदाहरणानि - 1. विनयः इत्येव = विनय + ठक् → विनय + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → वैनय + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैनय् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैनयिक 2. समयः इत्येव सामयिकः । 3. सङ्गतिः इत्येव साङ्गतिकः । 4. कथञ्चित् इत्येव = कथञ्चित् + ठक् [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → कथञ्चित् + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति 'क्' आदेशः] → काथञ्चित् + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → काथञ्चित्क 5. अकस्मात् इत्येव अाकस्मात्क 6. समूहः इत्येव सामूहिकः । स्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'विनयादिगणस्य शब्दाः तादृशाः अपि प्रयोक्तुम् शक्यन्ते ।
<<विनयादिभ्यष्ठक्>> - विनयादिभ्यः । उपायाद्ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे । ठक्, प्रकृतेदर्दीर्घस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते । वाचो व्याह्मतार्थायाम् ।इदमस्य वक्तव्य॑मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः । तदाह — संदिष्टार्थायामिति ।
उपायाद् ह्रस्वत्वं चेति। उपायशब्दष्ठकमुत्पादयति, ह्रस्वत्वं चापद्यते। स च ह्रस्व आकारस्यैव भवति; अन्यस्याचः स्वत एव ह्रस्वत्वात्। अकस्मादित्यत्र पठ।ल्ते, तद्दकारान्तम्, तेन'हसुसुक्तान्तात्कः' इति कादेशो न भवति - आकस्मिकः, अव्ययत्वाट्टिलोपः ॥