5-4-35 वाचः व्याहृतार्थायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः ठक्
व्याहृता अर्थायाम् वाचः ठक्
'व्याहृता (पूर्वप्रकाशिता)' अस्मिन् अर्थे वाच् शब्दात् स्वार्थे ठक्-प्रत्ययः भवति ।
व्याहृतः प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। पूर्वमन्येनोक्तार्थत्वात् संदेशवाग् व्याहृतार्थेत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे। व्याहृतार्थायामिति किम् ? मधुरा वाक् देवदत्तस्य॥
संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥
'व्याहृता' इत्युक्ते 'पूर्वप्रकाशिता' / 'अन्येन उक्ता' । यः सन्देशः केनचितम् पूर्वमेव कथितः अस्ति, तादृशः सन्देशः 'व्याहृतः सन्देशः' नाम्ना ज्ञायते । एतादृशस्य सन्देशस्य निर्देशार्थम् 'वाच्' शब्दात् स्वार्थे 'ठक्' प्रत्ययः भवति । प्रक्रिया इयम् - पूर्वमुक्ता वाक् = वाच् + ठक् → वाच् + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → वाचिक यथा - दूतः मन्त्रिणः वाचिकम् कथयति । अत्र मन्त्रिणा उक्ता वाक् दूतेन पुनः कथ्यते, अतः तस्य वाचः निर्देशः 'वाचिकम्' इत्यनेन क्रियते । राजा वाचिकम् श्रुणोति । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> 4.1.15 इत्यनेन ङीप्-प्रत्यये कृते 'वाचिकी' इति शब्दः सिद्ध्यति । यथा - जनाः वाचिकीम् गीताम् पठन्ति । यदि 'व्याहृता' इति अर्थः नापेक्षते, तर्हि वर्तमानसूत्रस्य प्रयोगः नैव भवति । यथा - देवदत्तस्य मधुरा वाक् । स्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'वाक्' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - दूतः मन्त्रिणः वाचम् कथयति ।
व्याहृत इति। उक्त इत्यर्थः। अन्येनेति। संदेष्ट्रा। तेन हि पूर्वमुक्तस्तस्यार्थः संदेशहरं प्रति। सन्देशवागिति। सन्देशरूपा वाक् सन्देशवाक्, सन्दिश्यते इति सन्देशः, तस्य वाक् संदेशवाक् यया संदिष्टोऽर्थोऽभिधीयते। अपर आह - लेख्यादिनावधारितेऽर्थे प्रवर्तमाना वाक् व्याहृतार्थेति। ठतिवर्तन्ते च स्वार्थिकाः प्रकृतितो लिङ्गवचनानिऽ इति नपुंसकत्वम् ॥