5-4-33 कालात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् अनित्ये रक्ते
अनित्ये वर्णे रक्ते च कालात् कन्
'काल' शब्दात् 'अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति ।
वर्णे चानित्ये रक्त इति द्वयमप्यनुवर्तते। कालशब्दादनित्ये वर्तमानाद् रक्ते च कन् प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते — कालकः पटः। कालिका शाटी॥
वर्णे चानित्ये <{SK2099}> रक्ते <{SK2100}> इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥
'काल' इति कृष्णवर्णस्य अन्यत् नाम । (The word काल here refers to 'black color' and not the 'time') । अस्मात् शब्दात्' अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति । क्रमेण पश्यामः - 1. यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण कालः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् कालवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् 'काल' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - अनित्यः कालः वर्णः स एव कालकः । An entity that is not always black in color, but turns black for some time, is described by the word कालक । यथा - लज्जया तस्य मुखम् कालकम् सञ्जातम् । His face turned black due to shame. 2. 'रक्त' इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण कालवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा कालवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् कालशब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - कालेन रक्तम् कम्बलम् तत् कालकम् कम्बलम् । स्त्रीप्रत्ययान्तात् 'काली' शब्दात् अपि स्वार्थे कन्-प्रत्ययः अनेन सूत्रेण भवितुमर्हति । यथा - वर्णेन रक्ता काली शाटिका = काली + कन् + टाप् [<<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → कालिक + आ [<<केऽणः>> 7.4.13 इति ह्रस्वादेशः] → कालिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] स्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'कालम् मुखम्' इति प्रयोगः अपि साधु ।
<<कालाच्च>> - कालाच्च । द्व्यमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति — कालकं मुखं वैलक्ष्येणेति । लज्जाऽसूयादिनेत्यर्थः । रक्ते उदाहरति — कालकः पट इति ।नील्यादिने॑ति शेषः ।
द्वयमप्यनुवर्तत इति। द्वयस्यापि स्वरितत्वात्, न त्वनन्तरं रक्तेऽ इत्येतदेवेत्यपिशब्दार्थः। वैलक्ष्येणेति। विलक्षस्य भावो वैलक्ष्यमुलज्जा। कालकः पट इति। नील्यादिना कालतामापादित इत्यर्थः ॥