5-4-32 रक्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् लोहितात् अनित्ये
index: 5.4.32 sutra: रक्ते
लोहितात् रक्ते कन्
index: 5.4.32 sutra: रक्ते
'रक्त' अस्मिन् सन्दर्भे लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।
index: 5.4.32 sutra: रक्ते
लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वा इत्येव, लोहितिका, कोहिनिका शाटी।
index: 5.4.32 sutra: रक्ते
लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥<!लिङ्गबाधनं वा इत्येव !> (वार्तिकम्) ॥ लोहितिका लोहिनिका शाटी ॥
index: 5.4.32 sutra: रक्ते
'रक्त' इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण लोहितवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा लोहितवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।
यथा - लोहितेन रक्तम् कम्बलम् तत् लोहितकम् कम्बलम् ।
वर्णे चानित्ये 5.4.31 इत्यत्र पाठितम् <!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> इति वार्त्तिकमस्य सूत्रस्य विषये अपि प्रयुज्यते । अस्य वार्त्तिकस्य अर्थः अयम् - 'लोहित' शब्दात् स्त्रीत्वे वाच्ये वर्णादनुदात्तात्तोपधात्तो नः 4.1.39 इति 'ङीप्' प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन 'लोहिनी' इति रूपं सिद्ध्यति । परन्तु यत्र 'लोहित' शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके 'लिङ्ग' इति शब्दः 'लिङ्गविशिष्टम् कार्यम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा -
लोहित + ङीप् + कन् + टाप् ['लोहित' शब्दात् स्त्रीत्वे विवक्षिते वर्णादनुदात्तात्तोपधात्तो नः 4.1.39 इति 'ङीप्' प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः]
→ लोहिती / लोहिनी + क + आ [<!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> इति वार्त्तिकेन वैकल्पिकः नकारादेशः]
→ लोहिति / लोहिनि + क + आ [केऽणः 7.4.13 इति ह्रस्वादेशः]
→ लोहितिका / लोहिनिका [ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
यथा - लोहितवर्णेन रक्ता सा लोहितिका लोहिनिका वा शाटिका । पक्षे (कन्-प्रत्ययस्य अभावपक्षे) - लोहिनी शाटिका ।
स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'लोहितं कम्बलम्' इति प्रयोगः अपि साधु ।
index: 5.4.32 sutra: रक्ते
रक्ते - रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम् ।
index: 5.4.32 sutra: रक्ते
यत्र द्रव्यान्तरसम्पर्केअण लौहित्यं तथाधीयते तथा यावदाश्रयमवतिष्ठते, तत्रानित्यत्वाभावात्पूर्वेण न प्राप्नोतीत्ययमारम्भः। नन्वेवमपि रञ्जनात् प्राक् सत्येव पदादावाश्रये लौहित्यस्यावस्थानाभावादस्त्येवानित्यता, न कारणावस्थायामेव रञ्जनात्? तदेतदेव वचनं ज्ञापकम् - पूर्वत्रायावद्द्रव्यभावित्वमनित्यत्वम्, न पुनराद्यन्तभाव इति। तादृशस्य त्वनित्यत्वस्य ग्रहणो तैजसानां परमाणूनां यल्लौहित्यं तद्व्यतिरिक्तस्य सर्वस्यैव लोहित्यस्य नित्यत्वादिदं वचनमनर्थलं स्यात् ॥