केऽणः

7-4-13 के अणः ह्रस्वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

के प्रत्यये परतोऽणो ह्रस्वो भवति। ज्ञका कुमारिका। किशोरिका। अणः इति किम्? गोका। नौका। राका, धाका इत्यत्र <<उणादयो बहुलम्>> 3.3.1 इति ह्रस्वो न भवति। <<न कपि>> 7.4.14 इति प्रतिषेधसामर्थ्यात् कनोऽपि सानुबन्धकस्य ग्रहणम् इह भवति।

Siddhanta Kaumudi

Up

के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<केऽणः>> - केऽणः । ह्रस्वः स्यादिति ।शृदृप्रा॑मित्यतस्तदनुवृत्तेरिति भावः ।

Padamanjari

Up

ज्ञकेति ।'भस्त्रैषाजाज्ञा' इतीत्वप्रतिषेधः । गोकेति । ठणिति पूर्वेण णकारेण प्रत्याहारःऽ इति'लण्' इत्यत्र प्रतिपादितम् । राका, धाकेति,'कृदाधाराचिकलिभ्यः कः' । कनोऽपीति । सानुबन्धकस्योपलक्षणमेतत्, ठोर्देअशे ठञ्ऽ, नैषादकर्षुकः ॥