5-4-110 नदीपौर्णमास्याग्रहायणीभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे नपुंसकात् अन्यतरस्याम्
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
नदी-पौर्णमासी-आग्रहायणीभ्यः अव्ययीभावे अन्यतरस्याम् टच्
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
यस्य अव्ययीभावसमासस्य अन्ते 'नदी', 'पौर्णमासी', 'आग्रहायणी' एतेषु कश्चन शब्दः विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति ।
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपमुपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि।
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
यस्य अव्ययीभावसमासस्य अन्ते 'नदी', 'पौर्णमासी', 'आग्रहायणी' एतेषु किञ्चन पदमस्ति तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । यथा -
= उप + नदी + टच् [वैकल्पिकः टच्-प्रत्ययः]
→ उप + नद् + अ [यस्येति च 6.4.148 इति टिलोपः]
→ उपनद
पक्षे टच्-प्रत्ययं विना 'उपनदि' इत्यपि रूपं सिद्ध्यति । (ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वादेशः विधीयते) । नद्याः समीपमुपनदमुपनदि वा ।
एवमेव -
पौर्णमास्याः समीपमुपपौर्णमासम् उपपौर्णिमासि वा ।
आग्रहायण्याः समीपमुपाग्रहायणम्, उपाग्रहायणि वा ।
स्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अम्-आदेशः भवति ।
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
नदीपौर्णमास्याग्रहायणीभ्यः - नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति ।अन्यतरस्या॑मितिट॑जिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् । 'यस्येति च' इतीकारलोपः । उपनदशब्दात्सुप् । अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकह्रस्वः । 'अव्ययादाप्सुपः' इति लुक् । उपपौर्णमासमिति । पौर्णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम् । उपपौर्णमासीति । टजभावे रूपम् । एवम् — उपाग्रहायणमुपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः । आग्रहायणी=मार्गशीर्षपौर्णमासी । अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः ।अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॑ इति प्रसिद्धेः ।
index: 5.4.110 sutra: नदीपौर्णमास्याग्रहायणीभ्यः
'नदि' इति स्वरूपग्रहणम्, न संज्ञायाः; पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् ॥