झयः

5-4-111 झयः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे नपुंसकात् अन्यतरस्याम्

Sampurna sutra

Up

index: 5.4.111 sutra: झयः


झयः अव्ययीभावे अन्यतरस्याम् टच्

Neelesh Sanskrit Brief

Up

index: 5.4.111 sutra: झयः


यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.111 sutra: झयः


झयः इति प्रत्याहारग्रहणम्। ज्ञयन्तादव्ययीभावादन्यतरस्याम् टच् प्रत्ययो भवति। उपसमिमिधम्, उपसमित्। उपदृषदम्, उपदृषत्।

Siddhanta Kaumudi

Up

index: 5.4.111 sutra: झयः


झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.111 sutra: झयः


झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम् । उपसमित् ॥ इत्यव्ययीभावः ॥ २ ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.111 sutra: झयः


यस्मिन् अव्ययीभावसमासे अन्तिमवर्णः 'झय्' प्रत्याहारस्य (= वर्गचतुर्थः / वर्गतृतीयः / वर्गद्वितीयः / वर्गप्रथमः) वर्णः अस्ति, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति ।

यथा -

  1. समिधः समीपम् = उप + समिध् + टच् → उपसमिध । पक्षे (टच्-प्रत्ययं विना) - उपसमिद् । समिधः समीपम् तत् उपसमिधमुपसमिद् वा ।

  2. दृषदः समीपम् = उप + दृषद् + टच् → उपदृषद । पक्षे - उपदृषद् । दृषदः समीपम् तत् उपदृषदमुपदृषद् वा ।

  3. वाचः समीपम् = उप + वाच् + टच् → उपवाच । पक्षे - उपवाच् । वाचः समीपम् तत् उपवाचमुपवाक् वा ।

  4. मरुतः समीपम् = उप + मरुत् + टच् → उपमरुत । पक्षे - उपमरुत् । मरुतः समीपम् तत उपमरुतमुपमरुत् वा ।

स्मर्तव्यम् -

  1. यद्यप्यत्र 'झय्' इति प्रत्याहारः निर्दिश्यते, तथापि झय्-प्रत्याहारस्य सर्वे वर्णाः अव्ययीभावसमासस्य अन्ते नैव दृश्यन्ते । अतः सर्वाणि उदाहरणानि अत्र न उपलभ्यन्ते ।

  2. केभ्यश्चन झयन्तशब्देभ्यः नित्यम् टच्-प्रत्ययः विधीयते । एतेषाम् सङ्कलनम् अव्ययीभावे शरत्प्रभृतिभ्यः 5.4.107 इत्यत्र कृतमस्ति ।

  3. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अम्-आदेशः भवति ।

Balamanorama

Up

index: 5.4.111 sutra: झयः


झयः - झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह — झयन्तादिति ।

Padamanjari

Up

index: 5.4.111 sutra: झयः


झय इति प्रतयाहारग्रहणमिति। झकारयकारयोस्तु ग्रहणं न भवति; तदन्तस्याव्ययीभावस्यासम्भवात्। योगविबागश्चिन्त्यप्रयोजनः ॥