नपुंसकादन्यतरस्याम्

5-4-109 नपुंसकात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे अनः

Sampurna sutra

Up

नपुंसकात् अनः अव्ययीभावे टच् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

यस्य अव्ययीभावसमासस्य अन्ते अन्नन्त नपुंसकलिङगवाची शब्दः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति ।

Kashika

Up

अन इत्येव। नपुंसकग्रहणमुत्तरपदविशेषणम्। अन्नन्तं यद् नपुंसकं तदन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म॥

Siddhanta Kaumudi

Up

अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥

Laghu Siddhanta Kaumudi

Up

अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥

Neelesh Sanskrit Detailed

Up

यदि कश्चन अन्नन्तः नपुंसकलिङ्गवाचकः शब्दः अव्ययीभावसमासस्य उत्तरपदरूपेण विधीयते, तर्हि तस्मात् <<अनश्च>> 5.4.108 इत्यनेन प्राप्तः 'टच्' इति समासान्तप्रत्ययः वर्तमानसूत्रेण विकल्प्यते । यथा - 1. चर्मणः समीपम् = उप + चर्मन् + टच् [वैकल्पिकः टच्-प्रत्ययः] → उप + चर्म् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → उपचर्म । अस्मात् अग्रे विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अम्-आदेशः भवति, अतः प्रयोगे 'उपचर्मम्' इति दृश्यते । पक्षे टच्-प्रत्ययस्य अभावे 'उपचर्मन्' इत्यपि प्रातिपदिकम्म् सिद्ध्यति । अस्य प्रथमैकवचनम् 'उपचर्म' इति । अतः - चर्मणः समीपम् उपचर्मम् उपचर्म वा । एवमेव - 2. ब्रह्मणः समीपम् उपब्रह्मम् उपब्रह्म वा । 3. नाम अनुसृत्य अनुनामम् अनुनाम वा ।

Balamanorama

Up

<<नपुंसकादन्यतरस्याम्>> - नपुंसकादन्यतरस्याम् । 'अन' इत्यनुवृत्तं नपुंसकस्य विशेषणं । तदन्तविधिः । अन्नन्तात्क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादि । उपचर्ममुपचर्मेति । चर्मणः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः । अम्भावः । टजभावे उपचर्मेति रूपम् ।

Padamanjari

Up

नपुंसकग्रहणमुतरपदविशेषणमिति। नाव्ययीभावविशेषणम्; अव्यभिचारात् ॥