5-4-108 अनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच् अव्ययीभावे
अन्-अव्ययीभावे टच्
यस्य अव्ययीभावसमासस्य अन्ते 'अन्' इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्॥
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
अन्नन्तादव्ययीभावाट्टच् स्यात्॥
यस्य अव्ययीभावसमासस्य उत्तरपदम् 'अन्' इत्यनेन समाप्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. राजानं प्रति = प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → प्रति + राज् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → प्रतिराज । राजानं प्रति प्रतिराजम् । 2. आत्मनि इत्येव = अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → अध्यात्मन् + टच् [<<इको यणचि>> 6.1.77 इति यणादेशः] → अध्यात्म् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → अध्यात्म । आत्मनि इत्येव अध्यात्मम् । 3. पञ्चानाम् समीपम् = उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → उप + पञ्च् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → उपपञ्च पञ्चानां समीपम् उपपञ्चम् । स्मर्तव्यम् - 1. यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि <<नपुंसकादन्यतरस्याम्>> इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते । 2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अम्-आदेशः भवति ।
<<अनश्च>> - अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । 'अन' इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।