विन्मतोर्लुक्

5-3-65 विन्मतोः लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी

Sampurna sutra

Up

अतिशायने अजादौ विन्-मतोः लुक्

Neelesh Sanskrit Brief

Up

'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः अङ्गे विद्यमानयोः 'विनि' तथा 'मतुँप्' प्रत्यययोः लुक् भवति ।

Kashika

Up

विनो मतुपश्च लुग् भवत्यजाद्योः प्रत्यययोः परतः। इदमेव वचनं ज्ञापकमजादिसद्भावस्य। सर्व इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी स्रजिष्ठः। उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी स्रजीयान्। अयमस्मात् स्रजीयान्। सर्व इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान् त्वचिष्ठः। उभाविमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान् त्वचीयान्। अयमस्मात् त्वचीयान्॥

Siddhanta Kaumudi

Up

विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥

Laghu Siddhanta Kaumudi

Up

विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥

Neelesh Sanskrit Detailed

Up

'विनि' तथा 'मतुँप्' एतौ द्वौ कौचन तद्धितप्रत्ययौ । 'तद् अस्य अस्ति' तथा 'तद् अस्मिन् अस्ति' एतयोः अर्थयोः एतौ प्रत्ययौ भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अनेन प्रकारेण निर्मिताः ये प्रातिपदिकाः, तेभ्यः 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनेन 'ईयसुँन्' एतयोः द्वयोः अजादिप्रत्ययोः प्राप्तयोः अङ्गे विद्यमानस्य 'विनि' तथा 'मतुँप्' प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति । कानिचन उदाहरणानि पश्यामः - 1. 'स्रज्' (माला / (garland)) इति कश्चन जकारान्तः शब्दः । अस्मात् शब्दात् <<अस्मायामेधास्रजो विनिः>> 5.2.121 अनेन सूत्रेण 'विनि' इति प्रत्ययः विधीयते । स्रक् अस्य अस्ति सः स्रग्वी । अस्मात् 'स्रग्विन्' शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे विनि-प्रत्ययस्य लोपः भवति । यथा - एते सर्वे स्रग्विणः । अयम् एतेषामतिशयेन स्रग्वी, अतः अयम् स्रजिष्ठः । प्रक्रिया इयम् - स्रज् + विनि + इष्ठन् → स्रज् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । <<प्रकृत्यैकाच्>> 6.4.163 इति अङ्गस्य प्रकृतिभावः ।] → स्रजिष्ठ एवमेव 'स्रज् + विनि + ईयसुँन्' इत्यत्र 'विनि' प्रत्ययस्य लोपं कृत्वा 'स्रजीयस्' इति प्रातिपदिकं सिद्ध्यति । 2. 'त्वच्' (skin) इति कश्चन चकारान्तः शब्दः । अस्मात् शब्दात् <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन मतुँप्-प्रत्ययः भवति । त्वक् अस्य अस्ति सः त्वग्वान् । अस्मात् 'त्वग्वत्' शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे अङ्गे विद्यमानस्य मतुँप्-प्रत्ययस्य लोपः भवति । यथा - यथा - एते सर्वे त्वग्वन्तः । अयम् एतेषामतिशयेन त्वग्वान् । अतः अयम् त्वगिष्ठः । प्रक्रिया इयम् - त्वच् + मतुँप् + इष्ठन् → त्वच् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । <<प्रकृत्यैकाच्>> 6.4.163 इति अङ्गस्य प्रकृतिभावः ।] → त्वचिष्ठ एवमेेव 'त्वच् + मतुँप् + ईयसुँन्' इत्यत्र 'त्वचीयस्' इत्यपि प्रातिपदिकं सिद्ध्यति । ज्ञातव्यम् - 'विनि' तथा 'मतुँप्' प्रत्ययान्तशब्दाः वस्तुतः गुणवाचिनः न सन्ति , अतः एतेभ्यः 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव प्रत्ययस्य लुक् उक्तः अस्ति अतः विधानसामर्थ्यात् एतेभ्यः शब्देभ्यः अपि अजादी प्रत्ययौ भवतः एव । स्मर्तव्यम् - <<अतिशायने तमबिष्ठनौ>> 5.3.55 इत्यत्र प्रारब्धम् 'अतिशायिक'प्रकरणमत्र समाप्यते ।

Balamanorama

Up

<<विन्मतोर्लुक्>> - विन्मतोर्लुक् । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । रुआजिष्ठ इति । रुआग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात्रकुत्वनिवृत्तिरिति भावः । एवं रुआजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दादिष्ठिनि मतुपो लुकि तन्निमित्तपदत्वभङ्घात्कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ ।

Padamanjari

Up

विन्मतोरित्युत्सृष्टानुबनधयोर्विनिमतुपोर्द्वन्द्वात्षष्ठीद्विवचनम्। अथ विन्ग्रहणं किमर्थम्, यावता येभ्यो विन् तेब्यो मतुबपि भवति, तस्यैव लुकि स्रजिष्ठ इत्यादि सिद्धम्, न च विन इष्ठचीयसुनोः श्रवणप्रसंगः, तदन्तातयोरभावात्? अस्मादेव हि लुग्वचनाद्विनन्तातयोर्भावो ज्ञाप्यते। यदा तर्हि विनन्तात्'तत्करोति तदातष्टे' इति णिच् क्रियते, तदा विनः श्रवणं मा भूदित्येवमर्थं विनो लुग्वचनम् - स्रग्विणमाचष्टे स्रजयति ॥