प्रशंसायां रूपप्

5-3-66 प्रशंसायां रूपप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः

Sampurna sutra

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


प्रशंसायाम् प्रातिपदिकात् तिङः च रूपप्

Neelesh Sanskrit Brief

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


प्रशंसाम् द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे रूपप्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


प्रशंसा स्तुतिः। प्रकृत्यर्थस्य विशेषणम् च एतत्। प्रशंसाविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति। स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति। प्रशस्तो वैयाकरणो वैयाकरणरूपः। याज्ञिकरूपः। प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति। वृषलरूपोऽयं यः पलाण्डुना सुरां पिबति। चोररूपः, दस्युरूपः, योऽक्ष्णोरप्यञ्जनं हरेत्। तिङश्च 5.3.56 इत्यनुवर्तते। पचतिरूपम्। पचतोरूपम्। पचन्तिरूपम्। क्रियाप्रधानमाख्यातम्। एका च क्रिया इति रुपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य।

Siddhanta Kaumudi

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


अनेन सूत्रेण 'रूपप्' इति प्रत्ययः स्वार्थे विधीयते । कस्यचन प्रशंसा कर्तव्या अस्ति चेत् तस्मात् प्रातिपदिकात् (तिङन्तात् वा) स्वार्थे 'रूपप्' इति प्रत्ययः भवति । यथा -

  1. प्रशस्तः वैयाकरणः (A grammatician who deserves to be praised) अस्मिन् अर्थे 'वैयाकरण' शब्दात् 'रूपप्' इति प्रत्ययं योजयित्वा 'वैयाकरणरूप' इति शब्दः सिद्ध्यति । वैयाकरणरूपः इत्युक्ते सः वैयाकरणः यः प्रशंसनीयः अस्ति ।

  2. प्रशंसनीयम् पचति (a cook whose cooking is commendable) अस्मिन् अर्थे 'पचति' अस्मात् तिङन्तात् 'रूपप्' इति प्रत्ययं योजयित्वा 'पचतिरूप' इति प्रातिपदिकं सिद्ध्यति । यथा - 'देवदत्तः पचतिरूपमस्ति' इत्युक्ते देवदत्तः प्रशंसनीयम् पचति ।

ज्ञातव्यम् -

  1. अनेन सूत्रेण निर्दिष्टः रूपप्-प्रत्ययः स्वार्थे विधीयते । अतः, यदा अयम् 'रूपप्' प्रत्ययः तिङन्तात् विधीयते, तदा निर्मितम् प्रातिपदिकम् क्रियाम् एव द्योतयति, न हि कर्तारम् । अनेनैव कारणेन अस्य प्रातिपदिकस्य प्रयोगः क्रियाविशेषणरूपेण क्रियते ।इत्युक्ते, एतत् प्रातिपदिकम् नित्यम् द्वितीयायाम् नपुंसकलिङ्गे एकवचने च प्रयुज्यते । उदाहरणत्रयं पश्यामश्चेत् स्पष्टम् स्यात् -

(अ) देवदत्तः प्रशंसनीयम् पचति = देवदत्तः पचतिरूपमस्ति ।

(आ) रामकृष्णौ प्रशंसनीयम् गायतः = रामकृष्णौ गायतोरूपम् स्तः । (गै + तस् + रूपम् → गायतोरूपम्)

(इ) सर्वे प्रशंसनीयम् पठन्ति = सर्वे पठन्तिरूपम् सन्ति ।

  1. अनेन सूत्रेण विहितः रूपप्-प्रत्ययः 'कार्ये उत्कृष्टत्वम् / excellency' अस्मिन् अर्थे विधीयते । अतः यद्यपि किञ्चन कर्म दुष्कर्म विद्यते, तथापि 'तस्मिन् कर्मणि उत्कृष्टः' यः कोऽपि, तस्य निर्देशार्थम् रूपप्-प्रत्ययः भवत्येव । यथा, यद्यपि 'चौरकर्म' प्रशंसनीयम् नास्ति, तथापि चौराणाम् समूहे यः कोऽपि देवदत्तः स्वस्य कर्मणा प्रशंसामर्हति, तस्य निर्देशार्थम् 'चौररूपः' इति प्रयोगः भवत्येव ।

  2. 'रूपप्' प्रत्यये परे स्त्रीवाचकस्य अङ्गस्य तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन पुंवद्भावः भवति । यथा - 'प्रशस्ता गायिका' अस्मिन् सन्दर्भे 'गायिका' शब्दात् रूपप्-प्रत्यये कृते अङ्गस्य पुंवद्भावः भवति -

गायिका + रूपप्

→ गायक + रूप [पुंवद्भावः]

→ गायकरूप

→ गायकरूप + टाप् [ स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ गायकरूपा

  1. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'रूपप्' प्रत्यये परे पुंवद्भावं बाधित्वा घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6.3.43 इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - दासी + रूपप् → दासिरूपा ।

Balamanorama

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


प्रशंसायां रूपप् - प्रशंसायां रूपप् । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् ।तिङश्चे॑त्यनुवृत्तम्, प्रातिपदिकादिति च ।धकाले॑त्यादिलिङ्घात्सुबन्तादिति लभ्यत इति भावः । प्रशंसाविसिष्टे स्वार्थे वर्तमानात्तिङन्तात्सुबन्ताच्च रूपविति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अत्र भाष्येक्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामे॑ति सिद्धान्तितम् । पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने, तिङैव द्वित्वबहुत्वयोरुक्तत्वात् । एकवचनं तूत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकादित्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्ठेऽर्थे । यशस्कल्पमिति । असंपूर्णं यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्णं यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्रस्वार्थिकाः प्रकृतितो लिङ्गवचनान्नयनुवर्तन्ते॑ इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असंपूर्णा पाकक्रियेत्यर्थः ।पचतिरूप॑मिति वल्लिङ्गवचननिर्वाहः । एवंवृषभकल्प इयं गौ॑रित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् ।क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गावचनान्यतिवर्तन्ते॑ इति वचनाद्गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 5.3.66 sutra: प्रशंसायां रूपप्


प्रकृत्यर्थविशेष्णं चैतदिति। प्रत्यार्थत्वे तु वैयाकरणस्य प्रशंसा वैयाकरणरूप इति प्राप्नोति, वैयाकरणरूपो देवदत इति सामानाधिकरण्यं न स्यात्, तस्मात्प्रकृत्यर्थविसेषमम् - प्रशंसाविशिष्टेभ्य इति। स पुनः प्रशस्तो न तु प्रशंसिता; अनभिधानात्। स्वार्थ इति। यद्येवम्, कुमारीरूपेत्यत्रानतिरिक्तं वय इति कृत्वा ङीप् प्राप्नोति? नैष दोषः; कुमारीशब्दादुत्पन्नेन ङीपा वयोविशिष्टार्थगतस्य स्त्रीत्वस्य द्योतितत्वाद्रूपबन्तस्य स्त्रीत्वमात्रमभिव्यङ्क्तुअं टाबेव क्रियते, न च ङीपैव तदभिव्यक्तमिति टापोऽप्रसङ्गः। कुमारीरूप इत्युच्यमाने हि कुटीरादिवल्लिङ्गान्तरं प्रतीयेत। यतद्वा - प्रवृत्तिनिमितभेदान्ङीपोऽप्रसङ्गः, कुमारशब्दस्य वयो निमितम्, रूपबन्तस्य तु तद्गता प्रशंसा, तदाहस्वाथिंकाश्चेत्यादि। अत्रापि प्रवृत्तिनिमितस्य प्रशंसायामयं प्रत्ययः, तेन यो व्याकरणेऽनिपुणः प्रशस्तश्च वंशशीलादिना, तत्र वैयाकरणरूप इति न भवति। क्वचितु सहचरितधर्मप्रशंसायामपि भवति - गोरूपोऽयं यः सम्यग्वहतीति। अथ कथं वृषलादिशब्देभ्यः प्रत्ययः, ते हि तदा निन्दावचनाः, तदभिधेयानां काकादिवन्निकृषख्टतच्वात् ? अत आह - प्रकृत्यर्थस्येति। वैशिष्ट।ल्मुपरिपूर्णता, तस्मिन्सति प्रशंसा भवति। तथा च वृषलादिशब्दा अपि स्वार्थस्य पूर्णत्वे सति प्रसंसाविशिष्ट एवार्थे प्रवर्तन्त इति तेब्योऽपि सिद्धः प्रत्यय इति भावः। वृषलरुप इति। यद्यप्ययं जातिवचनः, जातेश्च न्यूनत्वम् पूर्णत्वं वा न भवति; तथापि सहचरितधर्माल्पत्वं बहुत्वापेक्षं न्यूनत्वं पूर्णत्वं च द्रष्टव्यम्। यद्वा - गुमसमुदाये शब्दप्रवृतेः शब्दार्थस्यैवैतदुभ्यं भवति। यः पलाण्डुनेति। सहयोगे तृतीया। कश्चिद् वृषलः पलाण्कडुअं भक्षयति, कश्चित्सुरां पिबति, यस्तूभयं करोति तस्य परिपूर्णवृषलत्वम्। तथा चोरशब्दार्थस्यापि सुगुप्तवस्त्वपहरणेन परिपूर्णता भवति। अक्ष्णोरब्यञ्जनं हरेदिति। सम्भावने लिङ्, एवंविधमप्यस्य चौर्यसम्भवतीत्यर्तः। अक्ष्णोरप्यञ्जनं हरतु वा मा वा हार्षीत्, नन्वेवमपि यदा निन्दाप्रतिपादनाय वृषलरूप इत्यादि प्रयुज्यते तदा न सिद्ध्यति, निन्दैव हि तदा प्रकृत्यर्थस्य वैशिष्ट।लद्भवति, तस्मात्प्रशंसाग्रहणमपनीय वैशिष्ट।ल्ग्रहणमेव कर्तव्यम्, यदाह -'सिद्धं तु प्रकृतयर्थस्य वैशिष्ट।ल्वचनात्' इति। वृत्तिकारस्तु मन्यते - चोररूपोऽयमित्यादौ प्रशंसैव शब्दार्थः, निन्दाप्रतीतिस्तु वाक्यनिबन्धनेति। दृश्यते च प्रशंसापराणामपि निन्दापरत्वम्, यथा - राक्षस इति, पौरुषातिशयप्रशंसावचने प्रशंसा गम्यते, निर्घृणत्वप्रतिपादने तु निन्दा। पचतोरूपम्, पचन्तिरूपमिति। ???????द्विवचनबहुवचनप्रसङ्गः, स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति कृत्वा? तत्राह - क्रियाप्रधानमाक्यातमिति। यद्यप्याख्यातस्य क्रियासाधनपुरुषसंख्याकालोपग्रहरूपोऽनेकोऽर्थः, तथापि तेषु तस्य क्रियैव प्रदानमर्थः। कथं ज्ञायते? यत् क्रियां पृष्टस्तदन्तेनाचष्टे - देवदतः किं करोति? पचतीति। ननु च द्रव्यमपि पृष्टस्तिङ्न्तेनाचष्टे, यथा - क एषु देवदतो यः पचतीति ? युक्तमत्र य इति हि पदान्तरेण द्रव्योपलक्षणाय गुणभावं क्रिया नीयते। अत एव केवलेनाख्यातेन प्रतिवचनाभावः, न हि भवति - को देवदतः, पचतीति। तस्मात् क्रियाप्रधानमाख्यातम्, तिङ्न्तो पातार्थापेक्षं च क्रियायाःक प्राधान्यमुच्यते। व्रीहिनवहन्तीत्यादौ तु द्रव्यसंस्कारार्थत्वादवघातादेर्व्रीह्यपेक्षमप्राधान्यमस्त्येव। अपर आह - अत्राप्यवघातादेरेव शाब्दं प्रधान्यम्; साध्यत्वात्। न तु व्रीह्यादेः; साधनत्वात्। आर्थं तु तस्य प्रधान्यमिति। एका च क्रियेति।'निवृतभेदा सर्वत्र क्रियाक्यातेषु गम्यते' । कथं तर्हि द्विवचनबहुवचने भवतः - पचतः, पचन्तीति? नैते क्रियाबेदापेक्षे द्विवचनबहुवचने, किं कर्हि? साधनबेदापेक्षे। अत एव भवद्भिरास्यते हत्यादौ केवलक्रियावचने द्विवचनबहुवचनाभावः। न च कर्तृभेदः क्रियाभेदेन व्याप्तः; एकफलोद्देशेन प्रवृतामेकामेव पाकव्यक्ति बहुष्वपि कुर्वत्सु-भवन्तः पचन्ति, भवद्भिः पच्यत इति दर्शनात्। तस्मादाख्यातवाच्या क्रियैकेति सिद्धम्। तेन रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। अथ यथा तिङ्न्ते साधनभेदाश्रये द्विचनबहुवचने भवतः, तथा रूपबन्तादपि कस्मान्न भवतः? उक्तोतरमेतत् - क्रियाप्रधानमाख्यातमिति। स्वार्थिकस्य हि प्रकृतितो लिङ्गवचनप्राप्तिः, तत्र च क्रिया प्रधानभूता, सा चैका, ततश्च प्रधानभूतप्रकृत्यर्थानुरोधेन भवद्वचनमेकवचनमेव भवति। पचतिरूपमित्यादावपि कर्तुः संख्याऽभिधीयते। सुपा तु क्रियाया एकत्वम्। अथ वातिङेक्तत्वाद्रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिकत्वात् - ठेकवचनमुत्सर्गः करिष्यतेऽ इति। एतच्च तत्रतत्र व्याख्यातम्। यदि तर्हि क्रियाप्रधानमाख्यातम्, नपुंसकलिङ्गमपि रूपबन्तस्य न स्यात्, क्रियाया असतत्वभूतत्वेन लिङ्गाभावात्? अत आह - नपुंसकलिङ्गं त्विति। अथ तमबादेः रूपपश्च को विषयविभागः, यावताऽतिशायनमपि पूजानिन्दाविषयम् - पटुअतमः, पापीयानिति; रूपप्प्रत्ययोऽप्युभयविषयः - पटुअरूपः, चोररूप इति? उच्यते - अतिशायनं समानगुणप्रतियोग्यपेक्षम्, वैशिष्ट।ल्ं तु तन्निरपेक्षमिति स्पष्ट एव विषयभेदः ॥