भूतपूर्वे चरट्

5-3-53 भूतपूर्वे चरट् प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे

Sampurna sutra

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


भूतपूर्वे चरट्

Neelesh Sanskrit Brief

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


'भूतपूर्व' इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे चरट्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


पूर्व भूतः इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दोऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं च एअत्। भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्वः आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी।

Siddhanta Kaumudi

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


आढ्यो भूतपूर्वः । आढ्यचरः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


'भूतपूर्वः' इत्युक्ते 'पूर्वम् भूतः (used to exist before)' । 'भूतपूर्वः' इत्यस्य विशेष्यरूपेण यत् प्रातिपदिकम् प्रयुज्यते, तस्मात् स्वार्थे 'चरट्' प्रत्ययः भवति । 'चरट्' इत्यत्र टकारस्य इत्संज्ञा भवति, अतः प्रयोगे 'चर' इति प्रयुज्यते । यथा -

भूतपूर्वः आढ्यः (One who used to be rich earlier) = आढ्य + चरट् → आढ्यचरः ।

भूतपूर्वः सुकुमारः = सुकुमारचरः ।

स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्यये कृते 'आढ्यचरी', 'सुकुमारचरी' एतादृशाः शब्दाः सिद्ध्यन्ति ।

ज्ञातव्यम् - स्त्रीवाचिनः प्रातिपदिकात् चरट्-प्रत्यये विहिते तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन पुंवद्भावः विधीयते । यथा - भूतपूर्वा आढ्या सा

= आढ्या + चर

→ आढ्य + चर [पुंवद्भावः]

→ आढ्यचर

→ आढ्यचर + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययः]

→ आढ्यचर् + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ आढ्यचरी

विशेषः - 'चरट्' प्रत्ययस्य आदिस्थस्य चकारस्य चुटू 1.3.7 इत्यनेन इत्संज्ञा न भवति, यतः अत्र इत्संज्ञायाः किमपि प्रयोजनम् न विद्यते ।

Balamanorama

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


भूतपूर्वे चरट् - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः ।

Padamanjari

Up

index: 5.3.53 sutra: भूतपूर्वे चरट्


भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः'पौतन्ये' पि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते - भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा'चुटूअ' इत्यत्र प्रतिपादितम्।'गोष्ठात्खञ्' इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥