5-3-54 षष्ठ्याः रूप्य च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे चरट्
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठ्या भूतपूर्वे चरट् रूप्यः च
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठीसमर्थात् 'भूतपूर्वः' अस्मिन् अर्थे चरट् तथा रूप्य एतौ प्रत्ययौ भवतः ।
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठ्यन्तात् प्रातिपदिकात् रूप्यः प्रत्ययो भवति। चकाराच् चरट् च। षष्ठ्यन्तात् प्रत्ययविधानात् संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणं, न तु प्रकृत्यर्थविशेषणम्। देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः, देवदत्तचरः।
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठीसमर्थात् प्रातिपदिकात् 'अस्य भूतपूर्वः' (Belonging to someone in past ) अस्मिन् अर्थे 'चरट्' तथा 'रूप्य' एतौ प्रत्ययौ भवतः । यथा -
देवदत्तस्य भूतपूर्वः गौः (A cow that used to belong to Devadatta in past) = देवदत्तचरः गौः / देवदत्तरूप्यः गौः ।
कृष्णस्य भूतपूर्वः गौः = कृष्णचरः गौः / कृष्णरूप्यः गौः ।
ज्ञातव्यम् -
यद्यपि अस्मिन् सूत्रे समर्थानाम् प्रथमात् वा 4.1.82 इत्यस्मात् 'समर्थानाम्' इति न अनुवर्तते, तथाप्यत्र सूत्रस्य विधानसामर्थ्यात् षष्ठीसमर्थात् एव प्रत्ययविधानम् भवति ।
अत्र 'भूतपूर्वः इति षष्ठ्यन्तस्य विशेषणम् नास्ति अपितु प्रथमान्तस्य विशेषणमस्ति, यस्य सम्बन्धः षष्ठीसमर्थेन सह विद्यते । तस्यैव प्रथमान्तस्य निर्देशः तद्धितान्तशब्देन अपि भवति । यथा, ' देवदत्तस्य भूतपूर्वः गौः' इत्यत्र 'भूतपूर्वः' इति शब्दः 'गौः' इत्यस्य विशेषणरूपेण प्रयुज्यते न हि 'देवदत्तः' इत्यस्य । तथा च, 'देवदत्तचरः' तथा 'देवदत्तरूप्यः' एताभ्यां शब्दाभ्यामपि 'गौः' इत्यस्यैव निर्देशः भवति ।
चरट्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन अङ्गस्य पुंवद्भावः विधीयते ।
यथा - शुभ्रायाः भूतपूर्वः गौः
= शुभ्रा + चरट्
→ शुभ्र + चरट् [पुंवद्भावः]
→ शुभ्रचर
'रूप्य' प्रत्यये परे तु पुंवद्भावः न भवति, यतः तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यत्र 'रूप्य' प्रत्ययस्य ग्रहणं न भवति ।
यथा - शुभ्रायाः भूतपूर्वः गौः = शुभ्रा + रूप्य → शुभ्रारूप्यः ।
index: 5.3.54 sutra: षष्ठ्या रूप्य च
षष्ठ्या रूप्य च - षष्ठआ रूप्य च ।रूप्ये॑ति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठन्ताद्भूतपूर्वेऽर्थे इति । भूतपूर्वेऽर्थे विद्यमानात्षष्ठन्तादित्यन्वयः । भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठआ विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशङ्क्यतसिलादयः प्राक्पाशपः॑ इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह — तसिलादिइआत्यादि । शुभ्राया भूतपूर्व इति ।गौ॑रिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः ।
index: 5.3.54 sutra: षष्ठ्या रूप्य च
शेषविषये विधानातदन्तव्यवच्छेदकत्वाद्विशेषणमप्रधानम्। यत्पुनः षष्ठ।लक्षिप्तं सम्बन्धिमात्रम्, तद्व्यवच्छेद्यत्वाद्विशेष्यं प्रधानम्। प्रदानेतरसन्निधौ च प्रधाने कार्यसम्प्रत्ययो भवतीति प्रत्ययस्तावचतत्रैव विज्ञायते, ततश्च भूतपूर्वग्रहणमपि तस्यैव विशे,णमित्याह-षष्ट।ल्न्तात्प्रत्ययविधान इति। हेतुगर्भ चेदमभिधानम्-यस्मात् षष्ठ।ल्न्तात्प्रत्ययविधानं तस्मादिति। सम्प्रतीति। यद्यपि पूर्वं ङ्याप्प्रातिपदिकेनैव सम्बद्धमासीदिदानीं त्वेवमित्यर्थः। तत्र विधान इति सप्तम्यन्तस्य सम्प्रतीत्यस्य च पौरनरुक्त्यं मन्यमाना विधानशब्दमधिकरणसाधनं सूत्रपरं व्याचक्षते ॥