5-3-52 एकात् आकिनिच् च असहाये प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे कन्लुकौ
एकात् असहाये आकिनिच्, कन् लुकौ च
'असहाय' अस्य विशेषणरूपेण प्रयुक्तः यः 'एक' शब्दः, तस्मात् स्वार्थे आकिनिच् प्रत्ययः तथा कन्-प्रत्ययः भवति । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते ।
एकशब्दादसहायवाचिनः स्वार्थ आकिनिच् प्रत्ययो भवति, चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं संख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर्न स्यात्। एकाकिनौ, एकाकिनः॥
चात्कन्लुकौ । एकः । एकाकी । एककः ॥
'असहायः' (without a company / alone / helpless) अस्य विशेषणरूपेण प्रयुक्तः यः 'एक'शब्दः, तस्मात् स्वार्थे 'आकिनिच्' तथा 'कन्' एतौ प्रत्ययौ भवतः । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते । यथा - 1. असहायः एकः = एक + आकिनिच् → एक + आकिन् [प्रत्ययस्थस्य चकारस्य इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः तस्यापि लोपः भवति ।] → एक् + आकिन् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → एकाकिन् 2. असहायः एकः = एक + कन् → एकक 3. असहायः एकः = एक + X (प्रत्ययलुक्) → एक अनेन प्रकारेण 'असहायः एकः' अस्मिन् अर्थे 'एकाकिन्', 'एककः' तथा 'एकः' एते शब्दाः प्रयुज्यन्ते । विशेषः - अस्मिन् सूत्रे प्रयुक्तः 'एक' शब्दः सङ्ख्यायाः अर्थे न प्रयुज्यते, अपितु 'असहायः कश्चन' इत्यस्मिन् अर्थे प्रयुज्यते । अतः 'एकाकिन्' शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुमर्हन्ति - एकाकी, एकाकिनौ, एकाकिनः । यथा, शिशुपालवधे प्रयोगः दृश्यते - 'एकाकिनोऽपि परितः पौरुषेयवृताविव' । अत्र 'त्रयः जनाः एकाकिनः आसन्' इति अर्थः अस्ति ।
<<एकादाकिनिच्चासहाये>> - एकादाकिनिच्चा । असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः ।
आकिनिचः कनो वेति। तयोरेवानेन सूत्रेण विधानात्। एकधेत्यादौ तु सूत्रान्तरविहितस्य लुग् न भवति; असन्निधानात्। संख्याशब्दनिरासार्थमिति। अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्वात्। अस्तु, को दोषः ? तत्राह - तदुपादाने हीति। द्विबह्वोरिति। द्वित्वे बहुत्वे चेत्यर्थः। न हि द्वयोर्बहुषु वा एकत्वसंख्यास्ति। असहायत्वं तु परस्परव्यतिरिक्तसहायाभावेन बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदीर्घत्वेसिद्धमिष्टम्, यस्येतिलोपश्चाकारोच्चारणसामर्थ्यान्न भविष्यति ? न चावग्रहनिवृत्यर्थोऽकारः, नहि लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥