अस्ताति च

5-3-40 अस्ताति च प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः पूर्वाधरावराणाम् असि पुरधवः

Sampurna sutra

Up

पूर्व-अधर-अवराणामस्ताति पुर्-अध्-अवः

Neelesh Sanskrit Brief

Up

'पूर्व', 'अधर', 'अवर' शब्दानामस्ताति-प्रत्यये परे यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' आदेशाः भवन्ति ।

Kashika

Up

सप्तम्यन्तमेतत्। अस्तातिप्रत्यये परतः पूर्वादीनां यथासंख्यं पुरादय आदेशा भवन्ति। इदमेवादेशविधानं ज्ञापकम् — अस्तातिरेभ्यो भवति, असिप्रत्ययेन न बाध्यत इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्॥

Siddhanta Kaumudi

Up

अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नवे 'अस्ताति' प्रत्यये परे 'पूर्व', 'अधर', 'अवर' इत्येतेषामङ्गस्य यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' एते आदेशाः भवन्ति । यथा - 1. पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि = पूर्व + अस्ताति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → पुर् + अस्तात् [ 'पूर्व' इत्यस्य 'पुर्' इति आदेशः] → पुरस्तात् 2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः → अधर + अस्ताति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → अध् + अस्तात् ['अधर' इत्यस्य 'अध्' आदेशः] → अधस्तात् 3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः → अवर + अस्ताति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → अव् + अस्तात् ['अवर' इत्यस्य 'अव्' आदेशः] → अवस्तात् अनेन सूत्रेण निर्मितानाम् 'पुरस्तात्', 'अधस्तात्', 'अवस्तात्' एतेषां शब्दानां <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 अव्ययसंज्ञा भवति । ज्ञातव्यम् - 1. 'अवर'शब्दस्य विषये वर्तमानसूत्रेण नित्यम् 'अव्' आदेशे प्राप्ते अग्रिमसूत्रेण <<विभाषावरस्य>> 5.3.41 इत्यनेन अयम् 'अव्' आदेशः विकल्पेन भवति । अतः 'अवरस्तात्' अयं शब्दः अपि सिद्ध्यति । 2. <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन 'पूर्व', 'अधर' तथा 'अपर' शब्दानाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते, तं बाधित्वा <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> 5.3.39 इत्यनेन 'असि' प्रत्यये विधीयते । परन्तु वर्तमानसूत्रेण 'अस्ताति' प्रत्यये परे एव एतेषामादेशाः उक्ताः सन्ति । एतत् विधानमस्यैव ज्ञापकम्, यत् एतेभ्यः शब्देभ्यः 'असि' प्रत्ययेन सह 'अस्ताति'प्रत्ययः अपि भवितुमर्हति ।

Balamanorama

Up

<<अस्ताति च>> - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति 'पुरधव' इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः 'पुर्' आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः 'पुर्' आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः 'अध्' आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः 'अव्' आदेशे रूपम् ।

Padamanjari

Up

अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥