5-3-110 कर्कलोहितत् ईकक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.110 sutra: कर्कलोहितादीकक्
कर्क-लोहितात् इवे ईकक्
index: 5.3.110 sutra: कर्कलोहितादीकक्
'कर्क' तथा 'लोहित' शब्दाभ्याम् 'इव' इति सन्दर्भे स्वार्थे ईकक् प्रत्ययः भवति ।
index: 5.3.110 sutra: कर्कलोहितादीकक्
कर्कलोहितशब्दाभ्याम् इवार्थे ईकक् प्रत्ययो भवति। कर्कः शुक्लोऽश्वः, तेन सदृशः कार्कीकः। लौहितीकः स्फटिकः। स्वयमलोहितोऽप्युपाश्रयवशात् तथा प्रतीयते।
index: 5.3.110 sutra: कर्कलोहितादीकक्
कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥
index: 5.3.110 sutra: कर्कलोहितादीकक्
'कर्क' (= श्वेतः अश्वः / A white horse) तथा 'लोहित'(reddish / copper-color) एताभ्यां शब्दाभ्याम् 'इव' अस्मिन् सन्दर्भे स्वार्थे 'ईकक्' प्रत्ययः विधीयते ।
कर्कः इव
= कर्क + इकक्
→ कार्क + इकक् [ किति च 7.2.118 इति आदिवृद्धिः]
→ कार्क् + ईकक् [यस्येति च 6.4.148 इति आकारलोपः]
→ कार्कीक ।
कर्कः इव अयम् पशुः = कार्किकः । An animal that is not a white horse but looks exactly like a white horse - इत्याशयः ।
एवमेव - लोहितः इव = लौहितीक । यथा - लौहितीकः स्फटिकः । A crystal that is not actually reddish but appears reddish due to reflection of light - इत्याशयः ।
स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'कर्क' तथा 'लोहित' शब्दाभ्याम् 'इव' इति सन्दर्भे ईकक् प्रत्ययः एव भवति ।
index: 5.3.110 sutra: कर्कलोहितादीकक्
कर्कलोहितादीकक् - कर्कलोहितादीकक् । कर्कः शुक्लोऽआ इति । अआउपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः ।
index: 5.3.110 sutra: कर्कलोहितादीकक्
स्वयमलोहित इत्यादि। उपाश्रयःऊपादानभूतो लाक्षादिः ॥