शाखादिभ्यो यत्

5-3-103 शाखादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे

Sampurna sutra

Up

शाखादिभ्यः इवे यत्

Neelesh Sanskrit Brief

Up

शाखादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'यत्' प्रत्ययः विधीयते ।

Kashika

Up

शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति इवार्थे। शाखेव शाख्यः। मुख्यः। जघन्यः॥ शाखा। मुख। जघन। शृङ्ग । मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरण। शाखादिः॥

Siddhanta Kaumudi

Up

शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'यत्' इति प्रत्ययः भवति । शाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम। रूपाणि एतानि - 1. शाखा इव = शाखा + यत् → शाख्य । 2. मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः 'मुख्यः' इत्यनेन निर्दिश्यते । 3. जघनः इव = जघन्य । 4. शृङ्गः इव = शृङ्ग्यः । 5. मेघः इव = मेघ्यः । 6. चरणः इव = चरण्यः । 7. स्कन्धः इव = स्कन्ध्यः । 8. शिरः इव = शिरस्यः । 9. उरः इव = उरस्यः । 10. अग्रः इव = अग्र्यः । 11. शरणः इव = शरण्यः । 12. सोमः इव = सोम्यः । विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः । 2. केषुचन पुस्तकेषु / संस्करणेषु अत्र 'यत् ' इत्यस्य स्थाने 'य' इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनमस्तीति बालमनोरमायां स्पष्टीक्रियते । स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे यत्-प्रत्ययः एव भवति ।

Balamanorama

Up

<<शाखाऽऽदिभ्यो यत्>> - शाखादिभ्यो यत् । 'य' इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।

Padamanjari

Up