5-2-26 तेन वित्तः चुञ्चुप्चणपौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत्
'तेन वित्तः' (इति) चुञ्चुप्-चणपौ
'वित्तः (ज्ञातः)' अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः ।
तेनेति तृतीयासमर्थाद् वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतो ज्ञात इत्यर्थः। विद्यया वित्तो विद्याचुञ्चुः। विद्याचणः॥
यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥
'वित्तः' इत्युक्ते ज्ञातः / प्रतीतः (famous / wellknown) । <<वित्तो भोगप्रत्यययोः>> 8.2.58 इत्यनेन अयम् शब्दः निपात्यते । तृतीयासमर्थेभ्यः शब्देभ्यः वित्तः (प्रतीतः / ज्ञातः / प्रसिद्धः) अस्मिन् अर्थे 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः । यथा , विद्यया वित्तः ( विद्यया प्रतीतः / ज्ञातः) विद्याचुञ्चुः पुरुषः ; विद्याचणः पुरुषः वा । स्मर्तव्यम् - 1. 'चुञ्चुप्' तथा 'चुणप्' - उभयत्र चकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति । यद्यपि सामान्यरूपेण चकारस्य इत्संज्ञा <<तद्धितस्य>> 6.1.164 इत्यनेन समुदायस्य अन्तोदात्तत्वम् कारयितुम् विधीयते, तथाप्यत्र तत् न इष्यते । एवं च, <<चुटू>> 1.3.7 इति सूत्रमनित्यमस्ति, एतत् अनित्यत्व् अनुसृत्य अप्यत्र इत्संज्ञा न भवति । 2. 'चुञ्चुप्' इत्यत्र चकारोत्तरः उकारः अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा न भवति । अयमुकारः प्रत्ययस्यैव उकारः अस्ति, प्रत्यये च तस्य श्रवणमपि भवति । यथा - विद्या + चुञ्चुप् = विद्याचुञ्चु । अस्य शब्दस्य रूपाणि पुंलिङ्गे 'साधु' शब्दवत् भवन्ति । 3. 'वित्तम्' इति नपुंसकलिङ्गे प्रयुज्यते चेत् तस्य 'धनम्' इति अर्थः भवति । परन्तु अयमर्थः अत्र न इष्यते । अत्र 'वित्तः' इति पुंलिङ्गवाचिनः शब्दस्यैव ग्रहणम् भवति, यस्य अर्थः 'ज्ञातः / प्रतीतः' इत्येव विद्यते ।
<<तेन वित्तश्चुञ्चुप्चणपौ>> - तेन वित्तः । तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः=प्रसिद्धः । चस्य नेत्संज्ञेति । उपदेशे आदित्वाऽभावादिति भावः ।
वितः प्रतीत इति।'वितो बोगप्रत्यययोः' इति निपातनात्, चुञाचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा'चुटूअ' इत्यत्रैव वृत्तिकारेणोक्तम् ॥