2-3-32 पृथग्विनानानाभिः तृतीया अन्यतरस्याम् अनभिहिते पञ्चमी द्वितीया
पञ्चमीग्रहणमनुवर्तते। पृथग् विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पञ्चमी च। पृथग् देवदत्तेन, पृथग् देवदत्तात्। विना देवदत्तेन, विना देवदत्तात्। नाना देवदत्तेन, नाना देवदत्तात्। पृथग्विनानानाभिरिति योगविभागो द्वितीयार्थः।
विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ॥ हरि०पु० ७.२९ ॥
एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥
<<पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्>> - पृथग्विना । पञ्चमीद्वितीये चेति । 'तृतीयाऽभावपक्षे' इति शेषः । 'अपादाने पञ्चमी'षष्ठतसर्थप्रत्ययेन॑ 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठतसर्थेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह — अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याःषष्ठतसर्थे॑त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह — पञ्चमीद्वितीये चानुवर्तेते इति ।मण्डूकप्लुत्ये॑ति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति । विना रामेण, रामात्, रामम्, । नाना रामेण, रामात्, रामं वा । पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् ।पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने॑ इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः ।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह - पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूअकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम्'पञ्चमीग्रहणमिहानुवर्तते' इत्युच्यते। योगविभागः कर्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्॥