वेः शालच्छङ्कटचौ

5-2-28 वेः शालच्छङ्कटचौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

वेः शालच्-शङ्कटचौ

Neelesh Sanskrit Brief

Up

'वि' इत्यस्मात् स्वार्थे शालच् तथा 'शङ्कटच्' एतौ प्रत्ययौ भवतः ।

Kashika

Up

विशब्दात् शालच् शङ्कटज् इत्येतौ प्रत्ययौ भवतः। ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद् गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद् व्युत्पाद्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥

Siddhanta Kaumudi

Up

कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'वि' इति कश्चन उपसर्गः । प्रायः अस्य प्रयोगः 'विस्तृतम्' (big / large) अस्मिन् अर्थे क्रियते । अस्मिन्नेव अर्थे अस्मात् उपसर्गात् स्वार्थे शालच् तथा शङ्कटच् एतौ प्रत्ययौ भवतः । यथा - 1. वि + शालच् = विशाल । 2. वि + शङ्कटच् = विशङ्कट । 'विशाल' तथा 'विशङ्कट' - द्वौ शब्दौ अनेन सूत्रेण सिद्ध्येते । द्वयोरपि अर्थः 'विस्तृतम्' इत्येव अस्ति । यथा - विशाले शृङ्गे विशङ्कटे शृङ्गे वा । विशेषः - 1. यस्याः धेनोः शृङ्गे विशाले, सा धेनुः अपि 'विशाला धेनुः' / 'विशङ्कटा धेनुः' इत्यनने निर्दिश्यते । अत्र 'विशाले शृङ्गे अस्य सः विशालः' , 'विशङ्कटे शृङ्गे अस्य सः विशङ्कटः' एतादृशी व्युत्पत्तिः भाष्यकारेण दीयते । भाष्यकारस्य मतेन अत्र 'तदस्य अस्ति' इत्यस्मिन् अर्थे 'अ' प्रत्यययोजनम् कृत्वा रूपसिद्धिः भवति । 2. 'वि' इत्यस्य अनेके अर्थाः भवन्ति । बहुषु स्थलेषु 'वि' इति अव्ययमुपसर्गसंज्ञां विना अपि प्रयुज्यते । परन्तु अस्य सूत्रस्य विषये 'वि' इति उपसर्गवाचकस्यैव ग्रहणम् भवति । अतएव कौमुदीकारः स्पष्टीकरोति - 'कियाविशिष्टसाधनवाचकात् स्वार्थे' । क्रियायाः सम्बन्धरूपेण यत्र 'वि' इत्यस्य प्रयोगः भवति, तस्मिन्नेव अर्थे एतौ प्रत्ययौ भवतः - इति अस्य आशयः । 3. यद्यपि 'वि' उपसर्गस्य अनेके अर्थाः भवन्ति, तथापि 'विस्तृतम् / व्यापकम्' अस्मिन्नेव अर्थे अत्र 'वि' इति शब्दः गृह्यते । 4. अत्र प्रत्यययोः अर्थौ भिन्नरूपेण उक्तौ न स्तः । अतः अत्र 'स्वार्थे' प्रत्ययविधानम् भवति इत्येव उच्यते ।

Balamanorama

Up

Padamanjari

Up

क्व पुनरेते शालजादयो भवन्ति ? इत्याह - ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह - परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥