पक्षात्तिः

5-2-25 पक्षात् तिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् तस्य पाकमूले

Sampurna sutra

Up

'तस्य मूले' (इति) पक्षात् तिः

Neelesh Sanskrit Brief

Up

'मूल' इत्यस्मिन् अर्थे 'पक्ष' शब्दात् 'ति'प्रत्ययः भवति ।

Kashika

Up

तस्येत्येव। तस्येति षष्ठीसमर्थात् पक्षशब्दाद् मूलेऽभिधेये तिः प्रत्ययो भवति। मूलग्रहणमनुवर्तते, न पाकग्रहणम्, <<एकयोगनिर्दिष्टानामप्येकदेशोऽनुवर्तते>> इति। पक्षस्य मूलं पक्षतिः प्रतिपत्॥

Siddhanta Kaumudi

Up

मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'मूल' (प्रारम्भस्थानम् / origin / base) अस्मिन् अर्थे 'पक्ष' शब्दात् 'ति' प्रत्ययं कृत्वा 'पक्षति' इति तद्धितान्तरूपम् सिद्ध्यति । पक्षस्य मूलम् पक्षतिः । विशेषः - 'पक्ष' इत्यस्य द्वौ अर्थौ स्तः - 'पञ्चदशानां दिनानां समूहः - यथा शुक्लपक्षः / कृष्णपक्षः आदयः', तथा 'पक्षिणामुड्डयने प्रयुक्तः अवयवः (wings)' । एतयोः द्वयोः अपि अर्थयोः 'पक्षति' शब्दस्य प्रयोगः भवति । यथा - [अ] शुक्लपक्षस्य मूलम् (प्रथमदिनम्) पक्षतिः प्रतिपद् । (The first day of a fortnight). [आ] काकस्य पक्षस्य मूलम् पक्षतिः । (The base of a wing).

Balamanorama

Up

<<पक्षात्तिः>> - पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठन्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः ।

Padamanjari

Up

एकयोगशिष्टानामपि शब्दानां शब्दादिकारपक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञायते, तस्यैवानुवृत्तिर्भवति। तथा च'दामहायनान्ताच्च' इत्यत्र सङ्घया हणमनुवर्तते, नाव्ययग्रहणम्। अर्थाधिकारपक्षे तु युगपदन्योऽन्यार्थाभिधायिनां द्वन्द्वविधानाद् द्वन्द्वार्थविच्छेदान्न स्यादेकदेशानुवृत्तिः। पक्षस्य मूलं पक्षतिःउप्रतिपदि, पक्षिणश्च पक्षमूले प्रयुज्यते ॥